SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ० ६२॥ Jain Education International ॥ अथ प्रशस्तिः ॥ श्रीवीरशासनसरोवरराजहंसाः श्रीचन्द्रगच्छसरसीरुहचञ्चरीकाः । सत्त्वाधिकत्वसकलाजितसद्गुणौघाः श्रीपूज्यसोमविमला गुरवो बभूवुः ॥ १ ॥ येषां पदक्षालनवारिणाहिज्वरादिरोगाः प्रशमन्ति नूनम् । पूज्यपादा हि जयन्तु नित्यं गच्छाधिराजाः प्रकटप्रभावाः ॥ २ ॥ तत्पट्टपूर्वाचलसप्तसप्तिर्भाग्याधिको जंगमकल्पवृक्षः । गच्छाधिपः श्रीगुरुहेमसोमसूरीश्वरो राजतु साधुधुर्यः ॥ ३ ॥ तदीयगच्छे गुरुसंघवीरगीतार्थमुख्याः सकला बभूवुः । येषां करस्पर्शनतोऽपि मूर्खः प्राज्ञो भवेत्सर्वकलाप्रधानः ॥ ४ ॥ तदीयशिष्योदयवीर एव सद्गयबन्धेन हि शास्त्रमेतत् । कथाप्रबन्धैः सरसं प्रधानं निरूपयामास गुरुप्रसादात् ॥ ५ ॥ For Personal & Private Use Only 6 चरित्र ॥ १६२॥ jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy