Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मिन्नेकस्य वैदेशिकनरस्य बाढं मुक्तोऽपि खड्गो न लगति' । तदा पल्लीशेनोक्तं- ' तमानयन्तु' । सोऽप्यानीतः । तत्र प्रियदर्शना समुपविष्टाऽस्ति । तयोपलक्षितः । बन्धुदत्तोऽपि निजां प्रियां वीक्ष्य मुदितः । तयोरन्योऽन्यं मुदितयोर्हर्षाश्रूणि नेत्रे अमुंचतां ' तदा पल्लीशेनोक्तं- 'किमेतत् १ ' । प्रियदर्शनया कथितं - 'ममायं पतिः ' । तदा पल्लीशेन बन्धुदत्तः समालिंगितः । महानादरः कृतः । 'कोऽन्यः' इति पल्लीशेन पृष्टे बन्धुदत्तेनोक्तं- ' ममायं मातुलः' । अन्येऽष्टौ वन्दिनरा मोचिताः । दिनाष्टकं तत्र सप्रियो बन्धुदत्तः स्थितः । पल्लीशेन गौरवितः । एकदा पल्लीशेन बन्धुदत्तः पृष्टः -- “ भो बन्धुदत्त मम महान् विस्मयोऽस्ति । त्वं सत्यं | कथय । तव कर्कशः कठिनः खड्गप्रहारो बाढं मुक्तोऽपि न लग्नस्तत्र किं मंत्रप्रभाव ओषधिप्रभावो वा ? " । तदा बन्धुदत्तोऽव| दत् - ' स्वामिन्नायं मंत्रप्रभावः न वौपधिप्रभावः । अत्र मम देवगुरुप्रभावः ' । पल्लीशोऽवक्— ' तत्र को देवः ? कथ गुरुः ? ' । तदा बन्धुदत्तोऽवदत्-" स्वामिन् शपथपूर्वं सत्यं शृणु । मम देवः श्रीपार्श्वनाथः । गुरुरपि श्रीपार्श्वनाथः । खड्ग प्रहारस्य रोधने | किमाश्वर्यं ? अन्यान्यपि बहूनि विनानि श्री पार्श्वनाथनामप्रसादात्क्षयमुपयान्ति ” । पुनः पल्लीपतिः प्रोवाच – ' स देवः कीदृशः | क्वास्ति १ । बन्धुदत्तोऽवदत् – “तं श्रीपार्श्वनाथम भुमिन्द्रादिदेवा नरेन्द्राश्थ सेवन्ते । प्राकारत्रयच्छत्र विराजमानः सच्चामरोपशोभितो भगवानधुना नागपुर्यां संव्यवहरति । अनन्तकोटिभवसंदेहान् भगवान् भनक्ति । तन्नामप्रसादान्मनोवांछितपदार्थाः प्राप्यन्ते " । तनिशम्य पल्लीशः प्रोचे - ' तस्य दर्शनं मम कारय, यथाहं कृतार्थो भवामि ' । बन्धुदत्तेनोक्तं- ' एवमस्तु ' । तदा पल्लीशः, श्रीयुक्तो बन्धुदत्तः, बन्धुदत्तस्य मातुलो धनदत्तश्च ते त्रयोऽपि महर्ध्या चेलुः । क्रमेण ते नागपुर्यां प्रापुः । यत्र त्रिजगतीपति श्रीपार्श्व| नाथस्य समवसरणमस्ति तत्र गत्वा भगवन्तं ववन्दिरे । तत्र भगवान् देशनामादिदेश । तत्र बन्धुदत्तो देशनां श्रुत्वा भगवन्तं परिपृ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338