Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
र्श्व०
१५०॥
स्ववशीकृतः । सार्थवाहोऽपि बहुधनं प्रेषयति । स वनराजस्तत्र स्थितः सुखं भुनक्ति । एकदा राज्ञा निजांगजी नृसिंहो देशो|पद्रवकारिणं सामन्तमेकमुच्छेत्तुं प्रेषितः । वनराजोऽपि संग्रामाय मृभुजा कुमारसार्थे प्रेषितः । उभावपि कुमारौ ससैन्यां समुदितीभूय चलिती । द्वयोरपि सैन्य Sagar निशायां तस्थौ । " भो निर्याहि नियाहि । किं दुर्गे विश्व स्थितोऽसि । अरेऽधमाधम देशविध्वंसपापस्य फलं गृहाण " । तं कोलाहलं तुमुलं श्रुत्वा सोऽपि नामन्तनृपः सञ्जीभूतः पुरमध्यस्थिती युद्धमारेभे । बहिमंडितयंत्रोत्थस्थूलपापाण गोल कैर्वच संपातदारुणगफण्या गोलैः प्राकारं खंडयित्वा वहिः स्थितैर्भेदैस्तत्पुरं हतप्रहतं चक्र | वनराजेन स सामन्तो बद्ध्वा नृसिंहकुमारस्य समर्पितः । अहो धैर्यमहा धैर्यमिति सर्वत्र वनराजस्य ख्यातिविस्तीर्णा । नृपो|ऽपि पृष्ठलग्नस्तत्र समागतः । वनराजस्य प्रसिद्धिं श्रुत्वा चकितः - ' संग्रामेऽप्ययं न मृतः । किंचित्कार्यं समुद्दिश्य नृसिंहकुमारो वनराजसहितः स्वनगरे प्रेषितः । राजा स्वयं तत्रैव स्थितः । एकदा 'वनराजस्य विषं दातव्यं ' इति स्पष्टं लेख लिखित्वा नृसिंहकुमारस्यौष्ट्रिकं प्राहिणोत । शीघ्रं स औष्ट्रिकवचाल । यत्र सुन्दरयक्षाधिष्ठिता महाटवी वर्तते तत्र यक्षभवनसमीपे निशायां श्रान्तत्वात् स्थितः । तं लेखं गृहीत्वा यक्षालयेऽस्वपत् । तदा स यक्षोऽवधिनाऽज्ञासीत् - " अरे मदीयपुत्रवनराजस्य वधायायमुपक्रमां | कृतोऽस्ति । तथा करोमि यथाऽस्य सुन्दरं भवति ” । ततस्तं लेखं समुत्सार्य देवशक्त्या ' विषं देयं ' इत्यक्षरावली प्रमाज्य ( प्रमृज्य ) ' विषा इति नाम पुत्री शीघ्रं वनराजस्य दातव्या ' इति लेखे लिलेख | औष्ट्रिकः प्रातरुत्थाय पुरे गत्वा नृसिंहकुमारं | लेखमार्पयत् । नृसिंहोऽपि लेखमवाचयत् । कुमारोऽपि वनराजस्य समीपे लेखस्वरूपं कथयित्वा विवाहसामग्रीविधि चिनोति । उच्छल सूर्यनादेन महाधत्रलमंगलैः नृपपुत्रीं विषां वनराजः परिणिन्ये । वनराजस्तया विषया सहात्यन्तं शुशुभे । कतिपयैर्वासरे
Jain Education International
For Personal & Private Use Only
54:43
चरित्र
॥ १५०॥
www.jainelibrary.org

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338