Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
8
का धर्म करोमि ? कः सत्यवादी ? यस्मादहं धर्म लेभे'। नानाविधशास्त्राणां श्रवणं करोति । एकदा वने शरीरचिन्ताथै गतः।
तत्रकं साधुं ध्यानस्थितं दृष्ट्वा सागरो वन्दते स्म । तमभिवन्द्य पृच्छति-'स्वामिन् को देवः १ को गुरुः १ को धर्मः। के यूयं है। मम सर्व सत्यं कथय । ततः साधुः कायोत्सर्गपारयित्वा तमवादी-“भो महानुभाव अहमनगारो राज्यं त्यक्त्वा परिव्रज्यां गृहीत्वा
सिद्धध्यानं करोमि । अहं तव सत्यं कथयामि, परं मम ध्यानभंगो भवति । कल्येऽत्र श्रीपार्श्वजिनद्रखयोविंशतितमो जिनेंद्रः समवसकरिष्यति । तमभिवन्द्य प्रश्नं कुरुष्व" । तनिशम्य मुदितो गृहे प्राप्तः । द्वितीये प्रभुः पार्श्वनाथस्तत्र समवासार्षीत् । नृपादिपौरा | जिनागमनं ज्ञात्वा जिनवन्दनाय जग्मुः। स सागरोऽपि हर्षितो जिनवन्दनाय गतः। भगवानपि लाभं ज्ञात्वा सागरमुद्दिश्य धर्मदेश
नां पारेमे । देवतत्वगुरुतत्वधर्मतत्वमेदान् प्रकाशयति । सागरश्चकमनाः शृणोति । श्रीपाश्वों भगवान् सागरस्य धर्मसंशयं छिनत्ति । है|सागरो धर्म शृण्वन् वैराग्यं प्राप्तः भगवतश्चरणी ननाम । तत्रैव शुभवासनया शुक्लध्यानं ध्यायन् केवलज्ञानं पाप । यतिवेषमंगीकृत्य नाकलिसभायामुपविष्टः । स तु क्रमेण सिद्धः। भगवता संसारात्तारितः। एवंविधः परोपकारी श्रीपार्श्वजिनेन्द्रः॥ .
अथ प्रभोः शिष्याश्चत्वारः शुद्धवशोद्भवाः शिवसुन्दरसोमजयाह्वा मुनयश्चिराचीर्णव्रता भूरिश्रुतपाठका भगवन्तं प्रण४ाम्येदं व्यजिज्ञपन्—'हे भगवन् अस्माकमस्मिन् भवे सिद्धिर्भविता न वा ? ' ।प्रभुर्जगाद- यूयं चरमदेहा अस्मिन् भवे
सेत्स्यथ । ततस्तैश्चिन्तितं-"चेदस्मिन् भवेस्माकं सिद्धिः कथिता तदा देहे कष्टं किं वृथा क्रियते ? स्वेच्छया भुज्यते पीयते शीयते । बांद्धदर्शनेऽप्युक्तमस्ति । तथाहि.. मनोज्ञं भोजनं भुक्त्वा मनोज्ञशयनासनः । मनोज्ञभवने तिष्ठन्मनोज्ञं धार्यते व्रतम् ॥१॥
in Education Internation
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338