Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 310
________________ | र्नृपोऽपि पुरे समाययौ । कन्यापाणिग्रहणमहोत्सवं कुमारो व्यजिज्ञपत् । वनराजस्य विवाहं ज्ञात्वा नृपो दध्यौ - " अरे दैव त्वया किं कृतं ? एवं मार्यमाणोऽपि यदेष भृशमेघते । अथवा किं मुधा दैवोपालंभेन । पुनरपि प्रतीकारं करिष्ये " । इति ध्यात्वा कथितं - 4 ' साधु साधु कृतं ' । वनराजस्तया कान्या सह सुखं भुनक्ति । पुनः पुनर्नृपस्तस्य वधार्थमुपक्रमं करोति । एकदा निर्व्यजने निजमातंगौ समाकार्य शिक्षयामास -- “ अरे अद्य मध्ययामिन्यां पुरद्वारवासिनी कुलदेवतापूजनार्थं सोपस्करो य आयाति स हन्तव्य एव " । इति तौ तत्र प्रहीय सन्ध्यासमये वनराजं समाकार्य प्रच्छन्नमिदमत्रवीत् -" वत्स त्वं यदा संग्रामार्थं चलितस्तदा मया द्वारवासिन्या देवताया अर्चनं मानितमभूत् । तदद्य मध्यनिशायां तस्या अर्चनं कार्य यथाहमनृणी भवामि " । ततो वनराजो द्वियामसमये निशि प्रदीपपूजोपस्करं करे कृत्वाऽचलत् । तदावसरे निजावासवातायनस्थेन नृपपुत्रेण नृसिंहकुमारेण प्रदीपस्तो वनराजो दृष्टः, दीपोद्योतेनोपलक्षितः । नृपपुत्रस्तत उत्तीर्य वनराजं पप्रच्छ - - ' किमिदं ? ' । सोऽपि सत्यमचीकथत् । कुमारेण वनराजकरात्प्रदीपपूजोपस्करमादायोक्तं- ' त्वं गृहे याहि यास्येऽहं स्वयं द्वारवासिन्याश्चैत्ये ' । इत्युक्त्वा एकाग्रमानसो यावद्गच्छति तावन्नृपादिष्टनिपादाभ्यां स कुमारः खङ्गैईतः । कलकल वो जातः । तन्निरीक्ष्य जना नृपं निवेदयामासुः । नृपस्तुष्टः । तत्र विलोकनाथ नृपः 'किमस्ति ? किमस्ति ? ' इति ब्रुवन् गतः तावत्तत्र निजांगजः पतितो दृष्टः । तदा नृपो विललाप - ' हा वत्स किं जातं ? तवार्थे सबै | मया कृतं तत्सर्वं ममैत्र जातं ' । इत्यादि बहु विलप्य निजपुत्रस्य वह्निसंस्कारं विधाय वनराजमत्रवीत् - ' वत्स तव भाग्यं दत्रोपमं पुरोधसो वचनं सर्वै सत्यमेव, त्वं भाग्याधिकः । जन्मवासरात्सकलोऽपि वृत्तान्तो वनराजस्य नृपेण कथितः । " अथ त्वया ममापराधः क्षन्तव्यः । अथ त्वं राज्यं गृहाण । तव भाग्यैस्तव राज्यं समर्पितं । अहं तु प्रव्रज्यां ग्रहीष्ये " । इत्युक्त्वा शुभमुहूर्ते नृपो Jain Education International For Personal & Private Use Only www.jainvelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338