SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ र्श्व० १५०॥ स्ववशीकृतः । सार्थवाहोऽपि बहुधनं प्रेषयति । स वनराजस्तत्र स्थितः सुखं भुनक्ति । एकदा राज्ञा निजांगजी नृसिंहो देशो|पद्रवकारिणं सामन्तमेकमुच्छेत्तुं प्रेषितः । वनराजोऽपि संग्रामाय मृभुजा कुमारसार्थे प्रेषितः । उभावपि कुमारौ ससैन्यां समुदितीभूय चलिती । द्वयोरपि सैन्य Sagar निशायां तस्थौ । " भो निर्याहि नियाहि । किं दुर्गे विश्व स्थितोऽसि । अरेऽधमाधम देशविध्वंसपापस्य फलं गृहाण " । तं कोलाहलं तुमुलं श्रुत्वा सोऽपि नामन्तनृपः सञ्जीभूतः पुरमध्यस्थिती युद्धमारेभे । बहिमंडितयंत्रोत्थस्थूलपापाण गोल कैर्वच संपातदारुणगफण्या गोलैः प्राकारं खंडयित्वा वहिः स्थितैर्भेदैस्तत्पुरं हतप्रहतं चक्र | वनराजेन स सामन्तो बद्ध्वा नृसिंहकुमारस्य समर्पितः । अहो धैर्यमहा धैर्यमिति सर्वत्र वनराजस्य ख्यातिविस्तीर्णा । नृपो|ऽपि पृष्ठलग्नस्तत्र समागतः । वनराजस्य प्रसिद्धिं श्रुत्वा चकितः - ' संग्रामेऽप्ययं न मृतः । किंचित्कार्यं समुद्दिश्य नृसिंहकुमारो वनराजसहितः स्वनगरे प्रेषितः । राजा स्वयं तत्रैव स्थितः । एकदा 'वनराजस्य विषं दातव्यं ' इति स्पष्टं लेख लिखित्वा नृसिंहकुमारस्यौष्ट्रिकं प्राहिणोत । शीघ्रं स औष्ट्रिकवचाल । यत्र सुन्दरयक्षाधिष्ठिता महाटवी वर्तते तत्र यक्षभवनसमीपे निशायां श्रान्तत्वात् स्थितः । तं लेखं गृहीत्वा यक्षालयेऽस्वपत् । तदा स यक्षोऽवधिनाऽज्ञासीत् - " अरे मदीयपुत्रवनराजस्य वधायायमुपक्रमां | कृतोऽस्ति । तथा करोमि यथाऽस्य सुन्दरं भवति ” । ततस्तं लेखं समुत्सार्य देवशक्त्या ' विषं देयं ' इत्यक्षरावली प्रमाज्य ( प्रमृज्य ) ' विषा इति नाम पुत्री शीघ्रं वनराजस्य दातव्या ' इति लेखे लिलेख | औष्ट्रिकः प्रातरुत्थाय पुरे गत्वा नृसिंहकुमारं | लेखमार्पयत् । नृसिंहोऽपि लेखमवाचयत् । कुमारोऽपि वनराजस्य समीपे लेखस्वरूपं कथयित्वा विवाहसामग्रीविधि चिनोति । उच्छल सूर्यनादेन महाधत्रलमंगलैः नृपपुत्रीं विषां वनराजः परिणिन्ये । वनराजस्तया विषया सहात्यन्तं शुशुभे । कतिपयैर्वासरे Jain Education International For Personal & Private Use Only 54:43 चरित्र ॥ १५०॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy