________________
व्यवहर्तुं समागतः । शुभस्थाने सार्थ निवेश्य वनराजेन सह स्वयं सदुपायनं गृहीत्वा नृपस्य मिलनाय गतः । नृपाग्रे तदुपायनमढौकयत् । ऊर्ध्वींभूप स्थितः । राज्ञा सन्माने दापिते सार्थवाहो निविष्टः । सार्थवाहो नृपं पश्यन्नूर्ध्व एव स्थितः तदा नृपासन्नस्थः पुरोधास्तं कुमारममराकरं निरीक्ष्य हृदि स्पष्टं विचार्य तथैव नखमाच्छोटयत् । भूपो नखाच्छोटे दृष्टे पुरोधसं कारणं पप्रच्छ । सोऽप्याचख्यौ -' राजेन्द्र तव रहसि कथयिष्यामि ' | क्षणमवलंब्य रहस्यवृच्या कथितं -- ' आकृत्या ज्ञायते, अयं कुमारस्तव राज्यं ग्रहीष्यति । भूपोऽतिविस्मितश्चिन्तयति - " अरे पापः स एवायं किमसौ सुरः १ किं वा विद्याधरः १ यो मया भृत्यहस्तात् घातितोऽपि जीवितः । तदा विकल्पकल्पनेन किं १ अथाप्युपायो विधीयते । येन कारणेन तृतीयोड्डायनेन मयूरोऽपि गृह्यते " । इति | विमृश्य दिनपञ्चकानन्तरं साधेशं पप्रच्छ - ' कोऽयं कुमारः ? यस्तव पार्श्वे दृश्यते ' । सोऽप्यूचे - ' देव मम सुतः । नृपोऽप्युवाच - ' यद्येवं तर्हि कियतो दिनान् मत्पार्श्वे तिष्ठतु । साथैशेन चिन्तितं -- हसतां रुदतां चापि नृपादेशः कृतः श्रिये भवति ' । इति मत्वा केशवोऽप्यूचे --' राजेन्द्र एवमस्तु, यद्रोचते तत्क्रियतां ' । तस्तुष्टो नृपतिः सर्ववस्तुनो दानमोचनं कृत्वा स्वहस्तेन वस्त्रादिसन्मानं निर्ममे । अथ सार्थवाहः सानुपात लोचनो वनराजं बाहौ धृत्वा इदमूचे -- " वत्स नृपवचनमुल्लंघयितुं नो शक्यते |तस्माच्या किन्ति दिनानि नृपसमीपे स्थातव्यं । अधृतिर्नो कार्या " । वनराजेनोक्तं - ' आम तात प्रमाणं ' । तदा केशव सार्थवाही राजानमापृच्छय सुतमालिंग्य स्वोत्तारकं ययौ । राजापि बहिर्मुदिताननः कुमारं करे कृत्वाऽवोचत् -- ' वत्स स्वयां काऽप्यधूतिने कार्या । वनराजेनोक्तं- ' राजेन्द्र तव समीपे स्थितस्य किं मम दुःखं ' । नृपो वनराजं स्त्रसमीपे स्थापयित्वा कतिपयग्रामान् तुरंगांश्च निजपदातीन् समये दंडनायकपदवीं ददौ । सोऽप्युःकटो जातः । नृपसेवकान् सर्वानावर्जयामास । सर्वोपि नृपपरिवारोऽपि
"
Jain Education International
For Personal & Private Use Only
*********++
www.jainelibrary.org