Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१४८॥
ASSACHSHUSHOGOROSA
टेन पुरोधसा त बालक दृष्ट्वा नखाच्छोटनपूर्वकं शीघ्रं धूनितं । नृपेण संभ्रान्तमानसेन पुरोधाः पृष्टः-'एतत् किं ?'स निमित्तज्ञानवान् पुरोधा अवदत्--'राजेन्द्र य एप बालको दृश्यते, स त्वदीयराज्यस्याधिपो भविष्यति'। साशंकं नृपोऽब्रवीत- कथं ज्ञायते ?'। पुरोधाः पुनरप्यूवे-" सामुद्रिकशास्त्रेऽप्युक्तानि नखकेशाग्रलक्षणानि शुभाशुभानि प्रांच्यन्ते । तद्यथा| उन्नत्ताम्रनखा भव्याः सस्निग्धाः सौख्यदायकाः। शूर्पाकारा रूक्षभग्ना वक्राः श्वेताश्च दुःखदाः ॥१॥ | राज्याय पादयो रेखा ध्वजवजांकुशोपमाः । अंगुल्योऽपि समा दीर्घाः संहिताश्च समुन्नताः ॥२॥ | अंगुष्ठेविपुलैर्दुःखं सदाध्वगमनं नृणाम् । वृत्तैस्ताम्रनखैः स्निग्धैः संहितैस्तु सुखं भवेत् ॥३॥ हंसैणवृषभक्रौञ्चसारसानां गतिः शुभा। खरोष्ट्रवृषभश्वानगतयस्तु महाधमाः ॥४॥ | दुःखिनः काकजंघाः स्युर्दीर्घजंघा महाध्वगाः । बन्धनं चाश्वजंघानां मृगजंघास्तु पार्थिवाः ॥५॥ मृगव्याघोदरो भोगी श्वशृगालोदरोऽधमः । मंडूकसदृशं यस्योदरं स स्यान्महीपतिः ॥६॥ प्रलंबबाहुः स्वामी स्यात् हस्त्रबाहुस्तु किंकरः। स्वच्छारुणनखो दीर्घागुली रक्तकरः श्रिये ॥७॥ शक्तितोमरदंडासिधनुश्चक्रगदोपमा । यस्य रेखा भवेदेषा राजानं तं विनिर्दिशेत् ।। ८॥
॥१४॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338