SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १४८॥ ASSACHSHUSHOGOROSA टेन पुरोधसा त बालक दृष्ट्वा नखाच्छोटनपूर्वकं शीघ्रं धूनितं । नृपेण संभ्रान्तमानसेन पुरोधाः पृष्टः-'एतत् किं ?'स निमित्तज्ञानवान् पुरोधा अवदत्--'राजेन्द्र य एप बालको दृश्यते, स त्वदीयराज्यस्याधिपो भविष्यति'। साशंकं नृपोऽब्रवीत- कथं ज्ञायते ?'। पुरोधाः पुनरप्यूवे-" सामुद्रिकशास्त्रेऽप्युक्तानि नखकेशाग्रलक्षणानि शुभाशुभानि प्रांच्यन्ते । तद्यथा| उन्नत्ताम्रनखा भव्याः सस्निग्धाः सौख्यदायकाः। शूर्पाकारा रूक्षभग्ना वक्राः श्वेताश्च दुःखदाः ॥१॥ | राज्याय पादयो रेखा ध्वजवजांकुशोपमाः । अंगुल्योऽपि समा दीर्घाः संहिताश्च समुन्नताः ॥२॥ | अंगुष्ठेविपुलैर्दुःखं सदाध्वगमनं नृणाम् । वृत्तैस्ताम्रनखैः स्निग्धैः संहितैस्तु सुखं भवेत् ॥३॥ हंसैणवृषभक्रौञ्चसारसानां गतिः शुभा। खरोष्ट्रवृषभश्वानगतयस्तु महाधमाः ॥४॥ | दुःखिनः काकजंघाः स्युर्दीर्घजंघा महाध्वगाः । बन्धनं चाश्वजंघानां मृगजंघास्तु पार्थिवाः ॥५॥ मृगव्याघोदरो भोगी श्वशृगालोदरोऽधमः । मंडूकसदृशं यस्योदरं स स्यान्महीपतिः ॥६॥ प्रलंबबाहुः स्वामी स्यात् हस्त्रबाहुस्तु किंकरः। स्वच्छारुणनखो दीर्घागुली रक्तकरः श्रिये ॥७॥ शक्तितोमरदंडासिधनुश्चक्रगदोपमा । यस्य रेखा भवेदेषा राजानं तं विनिर्दिशेत् ।। ८॥ ॥१४॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy