SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ध्वजवज्रांकुशच्छत्रशंखपद्मादयस्तले । पाणिपादेषु शस्यन्ते यस्यासौ श्रीपतिः पुमान् ॥ ९ ॥ स्वस्तिके जनसौभाग्यं मीने सर्वत्र पूज्यता । श्रीवत्से वाञ्छिता लक्ष्मीर्गवाढ्यं दामकेन तु ॥ १० ॥ त्रा कर रेखा कनिष्ठाधः कलत्रकृत् । अंगुष्ठमूलरेखा तु भ्रातृभांडेषु शस्यते ॥ ११ ॥ अंगुष्ठोदरमध्यस्तु यवो यस्प विराजते । उत्पन्नभक्ष्यभोगी च स नरः सुखमेधते ॥ १२ ॥ स्थूलरेखा दरिद्राः स्युः सूक्ष्मरेखा महाधनाः । खंडितस्फुटिताभिः स्यादायुषः क्षय एव हि ।। १३ ।। द्वात्रिंशद्दशनो राजा भोगी स्यादेकहीनकः । त्रिंशद्दन्तास्तु सुखिनस्ततो हीनास्तु दुःखिनः ॥ १४ ॥ पद्मपत्रसमा जिह्वा रक्ता सूक्ष्मा सुशोभना । पार्थिवः शुकनाशः स्यात् ह्रस्वनाशस्तु धार्मिकः ||१५|| ललाटे चार्धचन्द्राभे राजा धर्मिष्ठ उन्नते । विद्याभोगी विशाले स्यादुःखी तु विषमे भवेत् ॥ १६ ॥ छत्राकारं नरेद्राणां शिरो दीर्घं तु दुःखिनाम् । अधमानां घटाकारं पापिनां स्थपुटं पुनः ॥ १७ ॥ मृदुलैः श्यामलस्निग्धैः स्निग्धैर्भवति भूपतिः । स्फटितैः कपिलैः स्थूलैः रूक्षैः केशैः सुदुःखिनः ।। १८ ।। इत्यादिसामुद्रिकोक्तानि यानि लक्षणानि शुभानि प्रोक्तानि सन्ति, तानि सर्वाणि शुभान्यस्मिन् बालके दरीदृश्यन्ते । For Personal & Private Use Only २०%** www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy