Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Educat
उदरथकी जेणे करी चिन्ता, सोई विश्वभर करसइ चिन्ता ॥ २ ॥ ”
इति चिन्तयन् दुःखेन दिनानि निर्गमयति । वनफलैः प्राणवृत्तिं करोति । कोऽपि विद्याधरोऽपदतीर्थे देवान् नमस्कर्तुं गच्छन् तं कुमारं भ्रमन्तं विलोक्य तत्र प्रकटीभूय सदयः पृष्टवान् -' कस्त्वं भोः ? कथमत्रागतः ?' । कुमारोऽपि यथातथं समाचख्यौ । खेचरोप्येनं धीरयामास - - " साधो शृणु, अहं तीर्थयात्रां कृत्वा पञ्चदशभिर्दिनैरायामि, तावदत्र स्थातव्यं । पश्चादहं तत्र समीहितस्थाने नेष्यामि । परं तु शृणु, अत्र चतुर्दिक्षु सुरैः क्रीडार्थं वाटिका रोपिताऽस्ति । तन्मध्ये पूर्वदक्षिणोत्तरवाटिकासु गन्तव्यं । तत्रस्थफलानामाहारः कार्यः । जलक्रीडा कार्या । परंतु पश्चिमदिग्भागे चैत्यपृष्ठौ या वाटिकास्ति, तत्र वा सर्वथैव न गन्तव्यं " । कुमारेण प्रतिपन्नं । विद्याधरो मोदकादिर्शवलं दत्वाऽऽकाशमंडलं जगाम । स प्रतिवासरं कामदेवमर्चयति । अन्यदा तदुद्याने कौतुकादीनि द्रष्टुं जगाम । पूर्वदिग्वाटिकायां ऋतुद्वयं वर्तते । एकस्मिन् पार्श्वे वसन्तर्तुः । तत्र सहकारचंपकादितवः पुष्पिताः सन्ति । तत्र कोकिलाः कंठनिर्यातपञ्चमोद्गरैर्वादस्वरेण वदन्ति । एकतः पार्श्वे चंपक कुसुमैस्तद्वनं सुगन्धीकृतं । तद्वाटिकायां एकतः पार्श्वे ग्रीष्भर्तुः जयति । तत्र पाटलाचकुलकुसुमगन्धः । तत्र दीर्घिकासु जलक्रीडां करोति । तत्रस्थफलान्यास्वादयति । ततो दक्षिणवाटिकायां याति । तत्र वर्षतुः राजते । केकिकेकाः शब्दायन्ते । दर्दुरा बाढवरेण स्टन्ति । केतकीजातिकुसुमानां परिमलेन राजते। एकस्मिन् पार्श्वे स्वच्छीकृतसरोवरः शरदृतुश्च शोभते । तत्र कासः सप्तच्छदास्तरवो हंसरवास्तैः कृत्वा शोभते । तत्र क्रीडति । तत उत्तरस्यां दिशि कुमारः समागात् । तत्रैकस्मिन् पार्श्वे शिशिरर्तुः तत्र कर्णिशतपत्रिकाः सन्ति । तासु भ्रमन् भ्रमरझंकारनादैः कुमारो लयलीनो विलोकयति । तद्वनस्थफलान्याहारयति । तद्वने चैकस्मिन् पार्श्वे हेमन्तर्तुश्चकास्ते । मरुवककुन्द
International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338