SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Jain Educat उदरथकी जेणे करी चिन्ता, सोई विश्वभर करसइ चिन्ता ॥ २ ॥ ” इति चिन्तयन् दुःखेन दिनानि निर्गमयति । वनफलैः प्राणवृत्तिं करोति । कोऽपि विद्याधरोऽपदतीर्थे देवान् नमस्कर्तुं गच्छन् तं कुमारं भ्रमन्तं विलोक्य तत्र प्रकटीभूय सदयः पृष्टवान् -' कस्त्वं भोः ? कथमत्रागतः ?' । कुमारोऽपि यथातथं समाचख्यौ । खेचरोप्येनं धीरयामास - - " साधो शृणु, अहं तीर्थयात्रां कृत्वा पञ्चदशभिर्दिनैरायामि, तावदत्र स्थातव्यं । पश्चादहं तत्र समीहितस्थाने नेष्यामि । परं तु शृणु, अत्र चतुर्दिक्षु सुरैः क्रीडार्थं वाटिका रोपिताऽस्ति । तन्मध्ये पूर्वदक्षिणोत्तरवाटिकासु गन्तव्यं । तत्रस्थफलानामाहारः कार्यः । जलक्रीडा कार्या । परंतु पश्चिमदिग्भागे चैत्यपृष्ठौ या वाटिकास्ति, तत्र वा सर्वथैव न गन्तव्यं " । कुमारेण प्रतिपन्नं । विद्याधरो मोदकादिर्शवलं दत्वाऽऽकाशमंडलं जगाम । स प्रतिवासरं कामदेवमर्चयति । अन्यदा तदुद्याने कौतुकादीनि द्रष्टुं जगाम । पूर्वदिग्वाटिकायां ऋतुद्वयं वर्तते । एकस्मिन् पार्श्वे वसन्तर्तुः । तत्र सहकारचंपकादितवः पुष्पिताः सन्ति । तत्र कोकिलाः कंठनिर्यातपञ्चमोद्गरैर्वादस्वरेण वदन्ति । एकतः पार्श्वे चंपक कुसुमैस्तद्वनं सुगन्धीकृतं । तद्वाटिकायां एकतः पार्श्वे ग्रीष्भर्तुः जयति । तत्र पाटलाचकुलकुसुमगन्धः । तत्र दीर्घिकासु जलक्रीडां करोति । तत्रस्थफलान्यास्वादयति । ततो दक्षिणवाटिकायां याति । तत्र वर्षतुः राजते । केकिकेकाः शब्दायन्ते । दर्दुरा बाढवरेण स्टन्ति । केतकीजातिकुसुमानां परिमलेन राजते। एकस्मिन् पार्श्वे स्वच्छीकृतसरोवरः शरदृतुश्च शोभते । तत्र कासः सप्तच्छदास्तरवो हंसरवास्तैः कृत्वा शोभते । तत्र क्रीडति । तत उत्तरस्यां दिशि कुमारः समागात् । तत्रैकस्मिन् पार्श्वे शिशिरर्तुः तत्र कर्णिशतपत्रिकाः सन्ति । तासु भ्रमन् भ्रमरझंकारनादैः कुमारो लयलीनो विलोकयति । तद्वनस्थफलान्याहारयति । तद्वने चैकस्मिन् पार्श्वे हेमन्तर्तुश्चकास्ते । मरुवककुन्द International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy