________________
वि०
१३९ ॥
%%%% %* * *
मुचुकुन्दादितो विकसन्ति । तत्र सर्वत्र कुमारः कुसुमामोदैर्दीर्घिकांभोऽवगाहनैः सत्फलप्राशनैश्च वासरान् गमयामास । एकदा | कुमारेण चिन्तित - " एता वाटिका मनोहराः सन्ति । अथ पश्चिमपार्श्वे चैत्यपृष्ठौ वाटिकाऽस्ति तां विलोकयामि " । इति सं| चिन्त्य तत्र गच्छति, वाटिकां विलोकयति, एकस्य तरोः कुसुमं जिघ्रति स्म । तत्तरुक्कुसुमामोदप्रभावात्सहसा रासभोऽजनि । तत्र सर्वत्र पूत्कुर्वन् भ्रमति । इतश्च पञ्चदशवासरैस्तीर्थयात्रां कृत्वा विद्याधरः समागात् । तेन खेवरेण दृष्टः । बहु निर्भर्त्यान्यतरोः कुसुममाघापितः । ततः स भूयो मनुष्यरूपं प्राप्य तस्य खेचरस्य पादयोर्निपत्य क्षमयामास । तदा खेचरेण प्रोक्तं- 'वद, त्वां कस्मिन् स्थाने मुञ्चामि ?' | कुमार ऊवे – 'स्वामिन्ममेदं कुसुमद्वयं दत्वा काञ्चनपुरे मुञ्च' । तदा खे वरेण तद्रासभकरणमनुष्यकरणकुसुमद्रयं दत्त्वा सहसा गगनमागंण काञ्चनपुरे मुक्तः । तथैव तत्रैव विलसति । अक्का च तं पुनर्वीक्ष्य विस्मिता चकिता । ततः साक्का जानुकूर्परयोः पट्टान् बद्ध्वा यष्टिकां करे कृत्वा शनैः शनैस्तस्य समीपं ययौ । कुमारो गाढामर्षमुक्तो जगाद - 'किमिदं मातः । सा रुदन्तीदमत्रवीत् -- ' वत्स त्वन्निमित्तं मया कष्टं प्राप्तं । परं तत्रागमात्सर्वं शुभं जातं ' । कुमारेणोक्तं -- ' तत्कथं १' । अकयोक्तं - " किं कथ्यते ? कामस्य भवने यदा त्वं प्रविष्टस्तदा कोऽपि दुष्टो विद्याधरस्तत्रैत्य तत्र पादुकाद्वयं गृहीत्वा गतः । अहं तस्यांशुके विलग्ना । दैवादत्रागताहं तेनोल्लाल्य प्रपातिता । पश्य ममांगोपांगानि भग्नानि । कस्य कथ्यते ? स्वयमेव सह्यते । | तवागमने सर्व समीहितं जातं" । इत्युक्त्वा स गृहे आनीतः । तथैव विलसति । पुनश्वावसरे तथा पृष्टः - ' तवात्र समागमनं कथं जातं ? वित्तागमः कुतः ? ' । कुमारेणोक्तं--" श्रूयतां मया कामदेवस्तत्राराधितः तेन तंत्र तोषाद्धहु घनं दत्तं, अत्राहं मुक्तः " । पुनस्तयोक्तं - ' अन्यत् किंचिदस्ति ' १ । स जगौ -- “ दिव्यमेकमौषधमस्ति, तेन घातेन वृद्धस्यापि सद्यो नवयौवनं स्यात् " ।
Jain Education International
For Personal & Private Use Only
चरित्र
| ॥१३९॥
www.jainelibrary.org