SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ व० ३८|| प्यग्रे न कथ्यते, परं तवाग्रे कथ्यते । विद्याधिष्ठितं मम पादुकाद्वयं वर्तते । तदारूढः खमुत्पत्येन्द्र भांडागाराद्वांछितार्थं समानये " । पा|पाधमा सेति श्रुत्वा मनसि दध्यौ - ' तमुपायं करोमि येन पादुकाद्वयं मम करे चटति । अन्येद्युर्मायया मन्दीभूपमा जीर्णमञ्चकेऽपतत् । मुधा शूलपीडया कूजितं करोति । कुमारेण वृद्धा मान्द्यकारणं पृष्टा । सा मांद्यहेतुमुवाच - वत्स तत्र किं कव्यते ? निजांगेनैव सद्यते । मौनमेव वरं । पुनः कुमारेण निबन्धेन पृष्टा सा जगाद - " हे वत्स तहिं श्रूयतां त्वं परदुःखेन दुःखितः परोपकाररसिकोऽसि । यदा त्वं गृहाद् गतस्तदा मया वार्धिमध्ये गतकस्य कामदेवस्य पूजाद्युपयाचितमभूत् । तहुष्करं मया न जातं तस्मात्कामदेवो मां पीडयति । तवाग्रे प्रकाशितं "। 'एनां पापां जलधौ क्षिपामि " इति विचिन्त्य कुमारोऽवदत् -- ' न हि मे दुष्करं, शीघ्रं चल्यतां ' । तयोक्तं-- 'साधु साधु' । अथ कुमारस्तां स्कन्धमासेप्य हृष्टः पादयोः क्षिप्तपादुकः सहसोत्प्लुत्य समुद्रमध्ये कामदेव चैत्येऽपतत् । तत्र गत्वाकया प्रोक्तं- ' वत्साहं द्वारे स्थितास्मि त्वमादौ काममर्चय' । स द्वारे पादुके मुक्त्वा चैत्यमध्ये प्रविष्टवान् । तदा साक्का शीघ्रं पादुके पादयोः क्षिप्त्वा स्वस्थानं ययौ । वयरसेनोऽपि तज्ज्ञात्वा भृशं दुःखितो हृद्यचिन्तयत्- ' अहं धूर्तोऽपि वञ्चितोऽस्मि । अथाहं निराधारः । भवतु, यद्भाव्यं तद् भविष्यति । चिन्तया किं १ यतः यो मे गर्भगतस्यापि वित्तं कल्पितवान् पयः । शेषवृत्तिविधानेऽपि किं वा सुप्तोऽथवा मृतः ॥ १ ॥ किंच- चंचल चित्त म करसि चिन्ता, चिन्तनहार करे सब चिन्ता । Jain Education International For Personal & Private Use Only चरित्र ॥१३८॥ jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy