Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
प्रपेदाते । ततो मुनीश्वरं नत्वा निजगृहं गत्वा तौ धर्मपरायणावभृतां । महीं भव्यजिनप्रासादप्रतिमामंडितां कारयित्वा नवनवादिभिः | है रथयात्राद्युत्सवं कारयित्वा साधर्मिकाणां वात्सल्यं च कारयित्वा क्रमेण स्वायुः परिपाल्य पर्यन्ते व्रतमादाय पञ्चमे ब्रह्मदेवलोके गतौ । क्रमेण महाविदेहे सिद्धावुभावपि ।
॥इति दाने जिनार्चनेऽमरसेनवयरसेनाख्यानम् ।। अधुनाऽक्षतपूजायां शुकराजस्याख्यानमुच्यतेतथाहि-अस्त्यत्र मरते नानारामाभिरामं श्रीपुरं नगरं सुन्दरं । तत्र बहिरुद्याने स्वर्गप्रासादसनिमः श्रीआदीनाथप्रासादोऽस्ति । तत्र प्रासादशिखरोपरि चञ्चलध्वजच्छलाजतानाह्वयते । उत्प्रेक्षते-शिखरे कलशोऽप्ये कथयन्नस्ति-" तेजसा कृत्वा
एकोऽयमेव खामी संसारतारकः सर्वज्ञोऽस्ति, भो लोका एनं भजध्वं, अथ जिनो यानपात्ररूपो भवसागरतारकस्तस्मादेनं सेवन्तां ।। ॐ तत्र प्रासादे श्रीऋषभदेवनमस्कारकरणाथं बहवो जनाः समभियन्ति । तस्य प्रासादस्याग्रे महानेकः सहकारद्रमोऽस्ति । तत्रैकं शुकयुगं
स्नेहानुबद्धं वसति । एकदा शुक्या शुकाग्रे प्रोक्तं-" हे प्राणनाथ मम दोहदोऽस्ति । त्वया शालिक्षेत्रादेकं शालिशीर्षकं समानीय मम दीयतां" | शुकेनोक्तं-“कान्ते इदं क्षेत्रं श्रीकान्तराज्ञः । अत्र यस्तेषां शीर्ष गृह्णाति तस्य शीर्ष ध्रुवं याति " | शुक्या प्रोक्तं--'हे प्रिय वत्तः कोऽपि कातरो नास्ति, यः प्रियायां म्रियमाणायां स्वप्राणलोभेनोपेक्षते ' । इति श्रुत्वा वाहं लजितः | जीवितनिःस्पृहो भृत्वा शालिक्षेत्रे गत्वा शालिशीर्षकं समानिन्ये । तया शुक्या स्वदोहदः पूरितः । एवं प्रतिदिनं राजनराणां रक्षतामपि भार्यादेशेन शुकः सोद्यमः शालिशीर्षकमानयति अन्योऽन्यं भक्षयति । अन्यदा श्रीकान्तभूपतिस्तस्मिन् शालिक्षेत्रे समा
in Education Interations
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338