Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्र
6095
अन्यदा ज्ञानरान् चारणश्रमणो मुनिः श्रीमदादिदेवप्रासादे समागत्य श्रीजिनेन्द्रं नमस्कृत्यास्तवी" जय त्रिभुवनाधीश जय संसारपारग । जयानन्तसुखागार जय ज्ञानमहोदधे ॥१॥
इत्याादारस्तवं कृत्वा जिनं वन्दित्वा मुनिः शुद्धभूभागे भूमि प्रमाय निविष्टः । तदा नरेन्द्रोऽपि जिनं प्रपूज्य मुनिमभिवन्ध शुद्धभावेनोपविश्यापृच्छन्-'भगवन् पूजाफलं वाच्यं । मुनिरुवाच-"राजनखंडतंडुलाक्षतैः पुजत्रयं नरा जिनस्याग्रे कुर्वाणा अक्षतं सुखं प्राप्नुवन्ति " । इत्थं मुनिवचः श्रुत्वा जना अक्षतपूजासमुद्यता बभूवुः । तदक्षतपूजाफलं श्रुत्वा शुकी शुकं प्रत्युवाच-"आवामपि जिनं तंडुलानां पुञ्जत्रयेण पूजयावः, यथाचिरेणैव कालेन सिद्धिसुखं भवेत् "। एवमुदित्वा जिनस्याग्रे ताभ्यां पुञ्जत्रयं क्रियते । अपत्ययुगलमपि ताभ्यां शिक्षितं । जिनाग्रे चत्वारोऽपि पक्षिणः प्रतिदिन शुद्धभावेनाक्षतपूजां कुर्वन्ति । क्रमेण ते चत्वारोऽपि आयुःक्षये देवलोके गताः । तत्र स्वर्गसुखं भुक्त्वा देवलोकारच्युत्वा हेमपुरनगरे शुकजीवो हेमप्रभ इति नाम्ना नृपोऽजायत । शुकीजीवोऽपि देवलोकाच्च्युत्वा तस्यैव हेमप्रभनृपस्य जयसुन्दरीति नाम्ना भार्या समजायत । द्वितीयापि शुकी संसारे भ्रान्त्वा तस्य हेमप्रभनृपस्य द्वितीया राज्ञी रतिसुन्दरीति नाम्ना समुदपद्यत । तस्य राज्ञोऽन्या अपि पश्चशतमिता भार्या बभूवुः । परंतु पूर्वसंस्कारात द्वाभ्यां सहातीव स्नेहः । एकदा तस्य नृपस्य महादाहज्वरोऽभूत् । चन्दनः सिच्यमानोऽपि व्याकुलो | भवति, भूमौ लुठति, क्रमेण सप्त रोगाः प्रादुर्बभूवुः । तद्यथाहै। अंगभंगभ्रमस्फोटिस्फोटशोफशिरोव्यथा । दाहश्च वरमुख्यानि सप्तापि स्फुटतामगुः ॥ १॥.
3
॥१४३॥
%
en Education Interations
Far Personal & Private Use Only
Mainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338