SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ चरित्र 6095 अन्यदा ज्ञानरान् चारणश्रमणो मुनिः श्रीमदादिदेवप्रासादे समागत्य श्रीजिनेन्द्रं नमस्कृत्यास्तवी" जय त्रिभुवनाधीश जय संसारपारग । जयानन्तसुखागार जय ज्ञानमहोदधे ॥१॥ इत्याादारस्तवं कृत्वा जिनं वन्दित्वा मुनिः शुद्धभूभागे भूमि प्रमाय निविष्टः । तदा नरेन्द्रोऽपि जिनं प्रपूज्य मुनिमभिवन्ध शुद्धभावेनोपविश्यापृच्छन्-'भगवन् पूजाफलं वाच्यं । मुनिरुवाच-"राजनखंडतंडुलाक्षतैः पुजत्रयं नरा जिनस्याग्रे कुर्वाणा अक्षतं सुखं प्राप्नुवन्ति " । इत्थं मुनिवचः श्रुत्वा जना अक्षतपूजासमुद्यता बभूवुः । तदक्षतपूजाफलं श्रुत्वा शुकी शुकं प्रत्युवाच-"आवामपि जिनं तंडुलानां पुञ्जत्रयेण पूजयावः, यथाचिरेणैव कालेन सिद्धिसुखं भवेत् "। एवमुदित्वा जिनस्याग्रे ताभ्यां पुञ्जत्रयं क्रियते । अपत्ययुगलमपि ताभ्यां शिक्षितं । जिनाग्रे चत्वारोऽपि पक्षिणः प्रतिदिन शुद्धभावेनाक्षतपूजां कुर्वन्ति । क्रमेण ते चत्वारोऽपि आयुःक्षये देवलोके गताः । तत्र स्वर्गसुखं भुक्त्वा देवलोकारच्युत्वा हेमपुरनगरे शुकजीवो हेमप्रभ इति नाम्ना नृपोऽजायत । शुकीजीवोऽपि देवलोकाच्च्युत्वा तस्यैव हेमप्रभनृपस्य जयसुन्दरीति नाम्ना भार्या समजायत । द्वितीयापि शुकी संसारे भ्रान्त्वा तस्य हेमप्रभनृपस्य द्वितीया राज्ञी रतिसुन्दरीति नाम्ना समुदपद्यत । तस्य राज्ञोऽन्या अपि पश्चशतमिता भार्या बभूवुः । परंतु पूर्वसंस्कारात द्वाभ्यां सहातीव स्नेहः । एकदा तस्य नृपस्य महादाहज्वरोऽभूत् । चन्दनः सिच्यमानोऽपि व्याकुलो | भवति, भूमौ लुठति, क्रमेण सप्त रोगाः प्रादुर्बभूवुः । तद्यथाहै। अंगभंगभ्रमस्फोटिस्फोटशोफशिरोव्यथा । दाहश्च वरमुख्यानि सप्तापि स्फुटतामगुः ॥ १॥. 3 ॥१४३॥ % en Education Interations Far Personal & Private Use Only Mainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy