Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 301
________________ चरित्र FARAKSHRESSAGAR ॥ अथ भावपूजायां वनराजकथोच्यते ॥ ... अस्मिन् भरतक्षेत्रे सुरपुरोपमं क्षितिप्रतिष्ठितं नाम नगरमस्ति । तत्र नरनारीजनाः सुरसुरीवृन्दानि इव राजन्ते । तत्रारिमद-16 | नो राजा राज्यं करोति । अथ तत्र स्वजनधनवर्जितो नित्यमार्तध्यानपरायणो दारिद्यरूपः कोपि भिक्षुकः कुलपुत्रको भिक्षार्थ प्रति| गृहं भ्रमति । इदं पापफलं । यतःतृणं लघु ततस्तूलं तूलादपि हि याचकः । याञ्चाभंगस्य कर्ता च ततो लाघवलाघवः ॥१॥ भिक्षा मे पथिकाय देहि सुभगे हा हा गिरो निष्फलाः कस्माद् ब्रूहि सखे प्रसूतकममूत् कालः कियान् वर्तते । मासे शुद्धिरभूत्तदा न हि न हि प्रोद्भूतमृत्यु विना को जातो मम चित्तवित्तहरणे दारिद्यनामा सुतः ॥२॥ इदं दारिधं दानद्वेषतरोः फलं । स भिक्षुको लोकेन निषिध्यमानश्चिन्तयति-"काकोऽपि पिंडं लभते । अहं भिक्षुर्भिक्षामात्रमपि न प्राप्नोमि । अहो मम पापफलं । कष्टेन किं जीवनं ? । अथ मम मृत्युरेव श्रेयान्" । इत्थं चिन्तयनेकदा प्रस्तावे पुराबहिर्विनिर्गत्य भवितव्यतावशादुपवनं ययौ । तत्र परमशान्तरसमयं धर्ममूर्ति महानुभावं मुनिमेकं वीक्षते । तस्मै प्रदक्षिणात्रयं CXCXCONCASACROCCANCIENCY ॥१४६॥ in Education International For Personal & Private Use Only wow.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338