SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रपेदाते । ततो मुनीश्वरं नत्वा निजगृहं गत्वा तौ धर्मपरायणावभृतां । महीं भव्यजिनप्रासादप्रतिमामंडितां कारयित्वा नवनवादिभिः | है रथयात्राद्युत्सवं कारयित्वा साधर्मिकाणां वात्सल्यं च कारयित्वा क्रमेण स्वायुः परिपाल्य पर्यन्ते व्रतमादाय पञ्चमे ब्रह्मदेवलोके गतौ । क्रमेण महाविदेहे सिद्धावुभावपि । ॥इति दाने जिनार्चनेऽमरसेनवयरसेनाख्यानम् ।। अधुनाऽक्षतपूजायां शुकराजस्याख्यानमुच्यतेतथाहि-अस्त्यत्र मरते नानारामाभिरामं श्रीपुरं नगरं सुन्दरं । तत्र बहिरुद्याने स्वर्गप्रासादसनिमः श्रीआदीनाथप्रासादोऽस्ति । तत्र प्रासादशिखरोपरि चञ्चलध्वजच्छलाजतानाह्वयते । उत्प्रेक्षते-शिखरे कलशोऽप्ये कथयन्नस्ति-" तेजसा कृत्वा एकोऽयमेव खामी संसारतारकः सर्वज्ञोऽस्ति, भो लोका एनं भजध्वं, अथ जिनो यानपात्ररूपो भवसागरतारकस्तस्मादेनं सेवन्तां ।। ॐ तत्र प्रासादे श्रीऋषभदेवनमस्कारकरणाथं बहवो जनाः समभियन्ति । तस्य प्रासादस्याग्रे महानेकः सहकारद्रमोऽस्ति । तत्रैकं शुकयुगं स्नेहानुबद्धं वसति । एकदा शुक्या शुकाग्रे प्रोक्तं-" हे प्राणनाथ मम दोहदोऽस्ति । त्वया शालिक्षेत्रादेकं शालिशीर्षकं समानीय मम दीयतां" | शुकेनोक्तं-“कान्ते इदं क्षेत्रं श्रीकान्तराज्ञः । अत्र यस्तेषां शीर्ष गृह्णाति तस्य शीर्ष ध्रुवं याति " | शुक्या प्रोक्तं--'हे प्रिय वत्तः कोऽपि कातरो नास्ति, यः प्रियायां म्रियमाणायां स्वप्राणलोभेनोपेक्षते ' । इति श्रुत्वा वाहं लजितः | जीवितनिःस्पृहो भृत्वा शालिक्षेत्रे गत्वा शालिशीर्षकं समानिन्ये । तया शुक्या स्वदोहदः पूरितः । एवं प्रतिदिनं राजनराणां रक्षतामपि भार्यादेशेन शुकः सोद्यमः शालिशीर्षकमानयति अन्योऽन्यं भक्षयति । अन्यदा श्रीकान्तभूपतिस्तस्मिन् शालिक्षेत्रे समा in Education Interations For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy