________________
गतः। शालिक्षेत्र सर्वत्र विलोकयति । एकस्मिन् पार्श्वे पक्षिभिर्विध्वस्तं प्रेक्ष्य ते शालिरक्षकाः पृष्टाः-'इदं शालिक्षेत्रं पक्षिभिः18 कथं विध्वस्तं ? कथं न रक्षितं'। त ऊचुः–'स्वामिन्नेकः शुकोऽस्माकं रक्षतामपि चौरखच्छालिशीर्षकं गृहीत्वा नंष्ट्वा प्रयाति'। चरित्र नृपेणोक्तं-' अथ पाशेन तं धृत्वा शीघ्रं ममान्तिके समानयत, तं चौरवनिगृह्णामि' । इत्युक्त्वा नृपो गतः । अथान्यदिवसे पाशेन | 31 शुकं धृत्वा बद्ध्वा च शालिरक्षकनरैनृपान्तिके नीतः । तदा पृष्ठे लग्ना शुकी अश्रुपूर्णाऽधावत् । दयितेन सह सुदुःखा नृपमन्दिरे
प्राप्ता । शालिरक्षकणास्थानस्थिता नृपो विज्ञप्तः- स्वामिन्नेष शालिमलिम्लुचः शुक आनीतः। तं दृष्ट्वा राजा कुपितो यावसान्निजासिना शुकं हन्ति तावच्छुकी पत्युरन्तरे सहसैव पतितावीच्च-" राजन्मामेव मारय, परं मम जीवितदायिनं दयितं मुञ्च, है येन स्वजीवितं तृणतुल्यं मत्वा मम शालिशीर्षस्य दोदहः पूरितः" । तदा नृपेण हसित्वा प्रोक्तं-- भोः कीर तव लोकविश्रुतं * पांडित्यं क्व गतं ? प्रियाकार्य वजीवितं कथं त्यजसि ?'। शुकी जगाद-" पितृमातृधनादिकं दूरेऽस्तु, राजन् कान्तानुरागेण है।
| नरः प्राणानपि त्यजेत् । तथा च हे राजन् त्वया श्रीदेवीराज्याः कृते जीवितव्यं कथं त्यक्तमभूत् । हे प्रभो तदा कीरस्य को ४ दोषः १" । तच्छ्रन्वा नृपो विस्मितः चिन्तयति--" एषा पक्षिणी मदीयवृत्तान्तं कथं जानाति ?' । नृपोऽप्राक्षीत्--'भद्रे त्वं | कथं जानासि ? मम कौतुकमस्ति, तत्सर्व कथय' । शुकी प्रोवाच-" राजन् शृणु, तव राज्ये पुरैका परिव्राजिकाऽभूत् । सा महा
मायाविनी क्षुद्रा क्षुद्रप्रयोगनिपुणा मूलमंत्रतंत्रेषु विदुरा नगरेऽस्मिन् वसति । एकदा तव भार्यया श्रीदेवीराज्या तस्यै प्रोक्तं-- 'मातरहं नृपस्य भार्या, नृपस्य तु बहुभार्याः सन्ति । कर्मवशेनाहं दुर्भगा । मम गृहे नृपो नायाति । तस्मात्कारणाद् भगवति
॥१४॥ प्रसीद, यथाहं पतिवल्लभा भवाभि । मयि जीवन्त्यां पतिजीवति मयि मृतायां च म्रियते तथा कुरु'। परिवाजिकया भणितं--
0665245+%%%
A
remational
For Personal & Private Use Only