SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Jain Educat |' नृपयोषितां धिग्जन्म । सपत्नीशते वासः । पुत्रस्यापि दर्शनं न भवति । स्वेच्छया गमनागमनं पितृगृहेऽपि न भवति । कुपात्रदानेन नृपयोषितो जायन्ते । वत्से त्वमिमामौषधीं गृहाण । भर्तुः खाने पाने देया । तत्र भर्ता वशीभविष्यति' । राज्ञी प्राह' नृपस्य मम गृहे प्रवेश एव नास्ति, मम दर्शनं कुतः, भगवति तस्यैौषधीं कथं ददामि १ । सोवाच — ' यद्येवं तर्हि भद्रे त्वं मत्समीपे मंत्रं गृहीत्वा चैकमनसा तं साधय । तव सौभाग्यं भविष्यति, पतिवल्लभापि भविष्यसि । इत्युदित्वा शुभमुहूर्ते परिवाजिका तम्या मंत्रं ददौ । राज्ञ्यापि पूजां विधाय विधिपूर्वकं मंत्रो गृहीतः । सा राज्ञी परमादरान्मंत्र जपति । दिनत्रयानन्तरं नृपेण | प्रतीहारी प्रेषिता । सा प्रतीहारी तामवदत् - भद्रे नृपस्त्वामात्रासमन्दिरे समाह्वयति । सर्वथैवागन्तव्यं । अथासौ कृतस्नानविलेपना कृतशृंगारा च राजलोकसमन्विता करिणीस्कन्धमारुह्य नृपाव / से प्राप्ता । राज्ञा सा दत्तसन्माना पट्टराज्ञी कृता । सा महा| राज्ञी बभूव । राज्ये यत्कृत्यपरा मनोऽभीष्टसौख्यं भुञ्जाना तुष्टाऽभीष्टफलं ददाति रुष्टा मूलं निकृन्तति । बहुवासरा जाताः । अधान्यदिवसे सा परिवाजिका राज्ञीगृहे समागता । परिव्राजिकया राज्ञी पृष्टा - ' वत्से तव मनोरथाः पूर्णाः सिद्धाः ? ' । साऽवदत् - ' मातस्तव प्रसादेन सर्व समीहितं जातं । तथापि मे मनो दोलायते । यदि नृपो मयि जीवन्त्यां जीवति मयि मृतायां प्रियते तदाहं निविडस्नेहं जानामि । परिवाकिया प्रोक्तं- ' वत्से यद्येवं तव मनो दोलायते तदानया मूलिकया नासिकायां नस्यं गृहाण । त्वं जीवन्त्यपि गतजीवेव लक्ष्यसे । द्वितीयालिकयाहं तव नस्यं दत्वा समाधिं करिष्यामि' । राज्ञ्योक्तं- ' मात| रेवं करिष्यामि । परिव्राजिकया मूलिका दत्ता । परिवाजिका तु स्वस्थाने जगाम । अथ राज्ञी मूलिकया नासिकायां नस्यमादाय गतजीवेव निश्चेष्टाऽकस्मात्पतिता । तदा नृपेण राज्ञी निवेष्टकाष्टा दृष्टा । राजलोकेऽत्याक्रन्दवः समुदच्छलत् । हाहाकारो जातः । For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy