________________
चरित्र
&| तदा नृपादेशेन बहवो वैद्या मांत्रिकाच मिलिताः । तैमृतेति ज्ञात्वा त्यक्ता । ' अस्या वह्निसंस्कारो युक्तः ' इति तेऽभाषन्त । नृपे-* | णापि भणितं-'अनया सह ममाप्यग्निसंस्कारः कार्यः । अनया विनाहं जीवितुं न शक्तः'। मंत्रिणः मामन्ता लोकाश्च शोका- 131 | कुला ऊचुः--' तब विश्वाधारस्येदृशं कर्तुमयुक्तं ' । सदुःखं नृपोऽप्याह--' स्नेहस्य किं द्वयी गतिः ? मा विलंब्यतां । मम क्षणोप्यब्दसमो व्रजति । निश्चयेन चन्दनकाष्टश्चिता रच्यताम् । इति भणित्वा नृपो राज्या सह स्वमन्दिगन्निययो । दीप्तूबरणोच्चै
रीनरसमूहै रुदन् नृपः प्रेतवनं प्राप्तः । तत्र दानं ददाति । यावचितामारोहति गज्ञीयुतः तावत्तपस्विनी दूरतो ब्रजन्ती तत्रासायाता । तयोक्तं-'राजन् मा साहसं कुरु ' । राज्ञा कथित-'पूज्ये अनया सह मम जीवितं । तयोक्तं-'यद्ययं तहि क्षणं विलंबस्व । तब प्रिया लोकसमक्षं जीवयामि ।। नृपस्तद्वचनं निशम्य हर्ष प्राप्य जगाद--' भगवति प्रसीद, तबोदितममोघं भूयात् दयिताया जीवितदानेनाहमपि जीवितः'। राज्ञेति कथिते तया तपस्विन्य संजीविन्यौपध्या नासिकाघ्राणे नस्यो दत्तः, तत्प्रभावेण राज्ञी जीविता । तनिरीक्ष्य नृपादिजनः सर्वोऽपि हर्ष प्राप्तः। जयजयारखो जातः । तूयनिर्धापगीतगाननाटकानि जातानि । तदा सर्वांगाभरणैस्तस्याः पादौ पूजयित्वा नृपोऽवदत-हे आर्ये पूज्ये यचं समीहसे तत्वं मार्गय' । तयोक्तं-'भो राजन्मम किमपि कार्य नास्ति । त्वत्पुरे भिक्षाग्रहणेन मम सन्तोषः । यतः
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । भिक्षाशनैर्मुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषे परमं निधानम् ॥ १॥'
॥१४२
in Education International
For Personal & Private Use Only
n lainelibrary.org