SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ HOLSTERS ORGA*06* तत्पृच्छयतां" | मगधाप्याह-“हे मातः प्रश्नेनानेन किं? अस्माकं द्रव्येण कार्य । तद्व्यं चैष बहु बहु पूरयन्नस्ति । प्रश्नेन किं?" र अक्कया प्रोक्तं-'तत्तु सत्य, तथापि प्रष्टव्यं'। अन्यदा मगधा निशायां वयरसेनं पप्रच्छ–'स्वामिन् राज्यसेवावाणिज्यादिकं विना युष्माकं द्रव्यप्राप्तिः कुतः। वयरसेनो मुग्धत्वात् सहकारफलस्य प्रभावमचीकथत् । यतः प्रायेण पुंसः सरलस्वभावो रंडास्तु कौटिल्यगुणप्रयुक्ताः । यवाः प्रकीर्णा न भवन्ति शालयस्तथैव नीचः प्रकृतिं न मुञ्चति ॥१॥ कुट्टिनी तज्ज्ञात्वा सहकारफलजिघृक्षया मदनफललपनश्रीपरिवेषणभक्षणाद्वमनमकारयत् । तत्फलबीजं वमनमध्याद् गृहीत्वाऽकया भक्षितं, तज्जठरे गतं वृथाऽभूत् । अथ वयरसेनस्तत्फलाभावात् कुतो ददाति ? ततः स आर्तध्यानं करोति । अनयाक्कया पापिण्या कपटं कृतं । एकदा 'अद्य देवीपूजां करिष्यामोऽतः कारणाचया बहिर्गन्तव्यं,' अनेन मिपेण गृहादहिः कर्पितः । पराभूत इव स्वमनादरं वीक्ष्य बहिर्ययो । अत्याकुलितश्चित्ते चिन्तयति-" सर्व समीहितं द्रव्येण भवति । द्रव्याभावादहं किं करोमि ? क गच्छामि ? । पुनः पुनश्चिन्तयति यस्यास्ति वित्तं स नरः कुलीनः स पंडितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥१॥ an Education international For Personal & Private Use Only ww.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy