________________
770
३६॥
वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालये पुष्पफलांबुभोजनम् । तृणेषु शय्या वरजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥ १ ॥
अतः कारणात्तत्राहं भ्रातुः सकाशे न यामि । यदि यामि तदा सोदरत्वात् पञ्चसप्तादिकं ग्रामं ददाति । तद्युगान्तेऽपि नाहं गृह्णामि । तेन गृहीतेन किं ? यतः
पौरुषाकारयुक्तस्य नीचवृत्तौ कुतो रतिः । मत्तेभकुंभनिर्भेदी केसरी तृणमत्ति किम् ॥ १ ॥ दीनमुक्त्वा परं नत्वा लल्लीकृत्य यदर्ज्यते । जीवितेन तु किं तेन जीवितान्मरणं वरम् ॥ २ ॥
I
ममापि राज्यमस्ति ” । इति विचिन्त्य तत्र भुक्त्वा नगरमध्ये स्थित्वा मगधाख्यपण्यस्त्रिया गृहे घनस्वेच्छया विलसति । नृपेणापि नगरे भृशमन्वेषितः परं कुत्रापि न दृष्टः । ततो राजा राज्यचिन्ताव्यग्रोऽभूत् । वयरसेनोऽपि त्यागभोगपरायणः सन् गीतद्यूतेष्टगोष्ठयादिविनोदैर्दिनान्यतिवाहयति । कदा कदापि काव्यशास्त्र कथादिभिर्दिनानि निर्गमयति । नाट्यसंगीतगानादिकैश्च दिनानि यान्ति । गीतशास्त्रविनोदैश्च कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां निद्रया कलहेन च ॥ १ ॥
एवं सुखेन कालो याति । अन्यदा कुट्टिनी मगधां प्रोचे - " हे वत्से तव प्रियो महादानेश्वरो महाभोगी, पृथिव्यां कोsपीदृशो नान्योऽस्ति । किं च व्यवसायं राजसेवादिकं किं (कं) चिन्न करोति । कदापि हि अर्थव्ययं भूयांसं करोति । तद् द्रव्यं कुतः ?
1
International
For Personal & Private Use Only
चरित्र
॥१३६॥
w.jainelibrary.org