________________
शुकेन शुक्या अग्रे प्रोक्तं- ' प्रिये त्वयाऽहमधुना साधु स्मारितः । इत्युदित्वा तौ सुक्कूटपर्वते गतौ । तत्सर्वं वयरसेनोऽश्रौषीत् । तौ पक्षिणौ सहकारफलद्वयं पर्वतादानीय वयरसेनाग्रे मुमुचतुः । तद्वचनात्तयोः फलयोर्भेदं ज्ञात्वा फलद्वयं गृहीत्वा कटौ न्यधात् । स मनसि दध्यौ किं सत्यमसत्यं वा १ । स्वयमेव ज्ञास्यते ' । अथ वयरसेनो निशार्धे ज्येष्ठं जागरयित्वा निद्रायाः सुखं गृह्णाति । सूर्योदये तावुभौ ततः स्थानात्प्रस्थितौ । मार्गे सरः समायातं । तत्र मुखशुद्धिं चक्रतुः । वयरसेनः फलप्रभावमकथयन् ज्येष्ठभ्रातुः राज्यकरं फलं ददौ । स्वयं चान्यत्फलं भक्षयामास । पुनरग्रे चलितौ । द्वितीयेऽह्नि प्रातः प्रच्छन्नीभूय गंडूषं करोति । फलप्रभावात् पुरस्ताद्दीनारशतपञ्चकं पतितं । ततो ज्येष्ठबन्धुना सह वगरसेनो भोजन तांबूलादिना स्वेच्छया सुखमनुभवति । ज्येष्ठेन पृष्टंतव द्रव्यं कुतः ? ' । स ऊचे - ' भांडागारान्मया सार्थे गृहीतं । क्रमेण तौ सप्तमे दिने काञ्चनपुरासन्भवने गतौ श्रान्तौ । तदेकस्य तरोर्मूलेऽग्रजः सुष्वाप । यतः --
श्रान्तानामलसानां च निद्रा हि परमं सुखम् । अतः परं सुखं नास्ति संसारे च जगत्त्रये ॥ १ ॥
वयरसेनः पुरमध्ये भोजनादिसामग्रीग्रहणार्थं गतः । तस्मिन् समये तत्र पुरेऽपुत्रो राजा शूलयोगान्मृतः । ततो हस्त्यश्वकलशच्छत्रचामरलक्षणवस्तुपञ्चकं देवाधिष्ठितं पुरे बंभ्रमीति । राज्यधरं नरमन्वेषयन् बहिर्गत्वाऽमरसेनस्य कुमारस्य सहसा कलशो ढालितः गजहयाभ्यां हेपितं, गजेन स्वशुंडया मस्तकोपरि च्छत्रं विस्तृतं, चामराभ्यां च वीजितः । तदाऽमरसेनो दिव्यवेषधरी गजस्कन्धारूढो मंत्रिसामन्तनागरैः प्रणम्याभिनन्दितः जयजयारावं शृण्वन् पुरे प्रविश्य नीत्या राज्यं करोति । वयरसेनोपि तस्य शुद्धिं लब्ध्वा मनसि दध्यो- “ चेज्ज्येष्ठभ्रात्रा ममागमनं न प्रतीक्षितं, तदाहं तस्य पार्श्वे किं यामि । यतः
Jain Education International
For Personal & Private Use Only
**
www.jainelibrary.org