SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ र्श्वο ३५॥ 'भो भ्रातः तातरोषस्य कारणं न ज्ञायते' । ज्येष्ठोऽवादीत् - " वत्स न जानामि तातरोषस्य कारणं, परंतु मनसेति ज्ञायते इदमपरमातुर्विजृंभितं " । लघुर्वभाण -- ' ततोपि किमली कैर्वाक्यैः प्रत्येति ' । पुनज्येष्ठोऽप्यूचे - " वत्स मुग्धस्त्वं, महिला कूटमन्दिरं अलीकमपि जल्पति, रागांधबुद्धयः पुमांसः स्त्रीवचनं कूटं सत्यं मन्यन्ते । गंगावा लुकाया मानं वार्थेर्जलमानं महागिरेस्तोलनं मति| मन्तो विजानन्ति । परं तु महिलायाः कूटपारं न जानन्ति । तथावयोरुपकारिणी जाता, तया सकलेयं मही दर्शिता " । एनां | वार्तां तयोः प्रकुर्वाणयोरमरसेनस्य निद्रा समागता । वयरसेनस्तु पुनः पुनः वामदक्षिणवीक्षणं कुर्वन् जागर्ति । अत्रान्तरे कीर एकथावृक्षे स्थितः कृपयार्द्रमनाः स्पष्टं निजप्रियां भगति स्म -- ' हे प्रिये इमावुभौ नरौ योग्य स्थिती, एतयोः किमप्यातिथ्यं क्रियते । कान्तया भणित:- " नाथ त्वया शुभं कथितं । सुकूटपर्वतगूढगह्वरे निजविद्याभिपिक्तबीजौ सहकारौ विद्याधरैरारोपि तौ । आवयोः शृण्वतोस्तैस्तयोर्माहात्म्यं कथितं एकस्य फलं यो भक्षयति तस्य राज्यं सप्तमे दिने स्यात् एवं द्वितीयाम्रतरीः फलवीजं यस्योदरे तिष्ठति तन्मुखात्प्रातडूपे दीनारशतपञ्चकं पतति । हे कान्त त्वयाप्याकर्णितं तद्वचः । आवां चैकैकं फलमानीयानयोर्दद्वः । परोपकारकरणेऽवतारः श्लाघ्य एव । यतः -- त एव दिवसाः श्लाघ्या यत्रोपक्रियते परः । शेषास्तु निष्फला ज्ञेया ध्रुवं मूढत्वहारिताः ॥ १ ॥ आदित्याय तमः सृष्टं मेघाय ग्रीष्मशोषता । मार्गश्रमस्तु वृक्षाय श्रेष्ठाः परोपकारिणः ॥ २ ॥ नसरोवर जल पिये, न तरुवर फल खाय । दातारांको पट्टीयो, पर उपकारे थाय || ३ || 39 Jain Education International For Personal & Private Use Only: चरित्र ॥१३५॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy