Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
२२२
१७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-२२-२५ राजावितीर्णचामराद्यलङ्कार ईश्वरः, तत्प्रभृतिः, तलवरमण्डवा[माडम्बिका]धिपाद्यैः, प्रविशद्भिनिष्क्रामद्भिश्च सपरिकरैः, तस्मिन् राजकुले, व्याघातोऽवधीरणा स्खलना, आत्मीयस्वाध्यायादिकार्यविघातो वा, तस्मिन्नेव खद्धे प्रभृते लभ्यमाने, लोभः प्रभूतलोभः खद्धे प्रभूते (= हैमदेशीनाममाला २.६७) प्रभूतार्थोऽयं खद्धः शब्दः देश्यः । उदाराणामुदारशरीराणां हस्त्यश्वस्त्रीपुरुषादीनां दर्शने सङ्गोऽभिष्वङ्गः, कस्यचित् स्यात् । गर्दा निरभिष्वङ्गा “यतय एते किल, तथाप्यदृष्टकल्याणवत्, सङ्गं कुर्वन्ति व्याक्षिप्तचेतसः परसमृद्धिषु"इत्येवं निन्दा । एते व्याघातयो दोषा राजपिण्डग्रहणे, पूर्वेतरसाधूनां प्रमादसम्भवात् इतरेषां मध्यमतीर्थकृत्साधूनां न व्याघातादयो दोषाः, अप्रमादात् प्रमादाभावाद्धेतोः तेषां हि भगवतामृजुप्रज्ञत्वाद्विशिष्टतराप्रमादसचिवं सर्वमेवानुष्ठानमतो विशेषः ॥२१॥
अष्टविधत्वप्रतिपादनायाह - असणादीया चउरो, वत्थं पायं च कंबलं चेव । पाउंछणगं च तहा, अट्ठविहो रायपिंडो उ ॥८१६॥ १७/२२
अशनादिका अशन-पान-खाद्य-स्वाद्याहाराः चत्वारः, वस्त्रं पात्रं च कम्बलश्चैव पादप्रोञ्छनकं च रजोहरणाख्यं तथा । अष्टविधो राजपिण्डस्तु, एषोऽष्टविधः परिवर्जनीयः ॥२२॥ कितिकम्मं ति य दुविहं, अब्भुट्ठाणं तहेव वंदणगं । समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥८१७॥ १७/२३
कृतिकर्मेति च द्विविधम् अभ्युत्थानमभिमुखमुत्थानम् तथैव वन्दनकं द्वादशावर्तादि, श्रमणैः साधुभिः श्रमणीभिश्च साध्वीभिः यथार्ह यथायोग्यं भवति कर्तव्यं विधेयम् ॥२३॥
सव्वाहिं संजतीहिं, कितिकम्मं संजयाण कायव्वं । पुरिसोत्तमो त्ति धम्मो, सव्वजिणाणं पि तित्थेसु ॥८१८॥ १७/२४
सर्वाभिः संयतीभिः संयमवतीभिः, कृतिकर्म प्रस्तुतं संयतानां साधूनां कर्तव्यमनुष्ठेयम् । पुरुषोत्तमः पुरुषप्रधानो धर्म इति कृत्वा, सर्वजिनानामपि चतुर्विशतेरपि, तीर्थेषु प्रवचनेषु ॥२४॥
व्यतिरेके दोषमाह - एयस्स अकरणंमी, माणो तह णीयकम्मबंधो त्ति । पवयणखिंसाऽयाणग, अबोहि भवबुड्ढि अरिहंमि ॥८१९॥ १७/२५

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362