Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 328
________________ २८७ परिशिष्टम्-६ ॥२८॥ ततस्तदैव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात् ते प्रव्रज्यां प्रपेदिरे ॥२९॥ ततः सुगतिसन्तानान्निास्यन्त्यचिरादमी। अन्यः पुनरभव्यत्वाद्भवारण्ये भ्रमिष्यति ॥३०॥ इति गाथार्थः ॥६/१३॥ (३) शुभभावस्य बोधिबीजकारणता स्तेनज्ञातेन स एवासावेव परिशुद्धः शुभभाव एव जायते संपद्यते । बीजमिव बीजं कारणं । बोधेः सम्यग्दर्शनस्य । अयं चार्थः कथं समर्थनीय इत्याह-स्तेनज्ञातेन चौरोदाहरणेन । तच्चेदम्इहाभूतां नरौ कौचिदन्योऽन्यं दृढसौहृदौ । युवानौ साहसोपेतौ चौरौस्वबलगवितौ ॥१॥ भोगलुब्धौ समस्तेच्छापूरकद्रव्यवर्जितौ। तौ च चौर्यं व्यधासिष्टां भोगवाञ्छाविडम्बितौ ॥२॥ दंडपासिकलोकेन संप्राप्तावन्यदा तकौ । नीयमानौ च तौ तेन वध्यस्थानं तपस्विनौ ॥३।। दृष्टवन्तौ मुनीन् मान्यान् मानिमानवसंहतेः । साधूनां सत्क्रियां दृष्ट्वा तयोरेको व्यचिन्तयत् ॥४॥ अहो धन्यतमा एते मुनयो विमलक्रियाः । स्वकीयगुणसन्दोहाज्जगतां पूज्यतां गताः ॥५॥ वयं पुनरधन्यानामधन्या धनकाङ्क्षया। विदधाना विरुद्धानि वध्यतां प्रापिता जनैः ॥६॥ धिक्कारोपहतात्मानो यास्यामः कां गतिं मृताः ? ही जाता दुःस्वभावेन लोकयविराधकाः ॥७॥ तदेवं साधु साधूनां वृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः ? ॥८॥ अन्यः पुनरुदासीनो भवति स्म मुनीनभि। गुणिरागादवापैको बोधिबीजं न चापरः ॥९॥ ततस्तनुकषायत्वादानशीलतया च तौ। नरजन्मोचितं कर्म बद्धवन्तावनिन्दितम् ॥१०॥ मृत्वा च तौ समुत्पन्नौ कौशाम्ब्यां पुरि वाणिजौ । जातौ चानिन्दिताचारौ वणिग्धर्मपरायणौ ॥११॥ जन्मान्तरीयसंस्कारादाबालत्वात् तयोरभूत् । अत्यन्तमित्रताभावो लोकाश्चर्यविधायकः ॥१२॥ रोचते च यदेकस्य तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेकचित्ताविमाविति॥१३॥ ततः कुलोचितं कर्म कुर्वतोर्यान्ति वासराः । अन्यदा भुवनानन्दी प्राप्तस्तत्र जिनेश्वरः ॥१४॥ भगवान श्रीमहावीर इक्ष्वाकु कुलनन्दनः । वाग्नीरैर्जनसंतापशमनेऽम्भोदसन्निभः ॥१५॥ विदधुस्तस्य गीर्वाणा व्याख्याभूमिं मनोहराम् । तत्रासौ धर्माचख्यौ सनरामरपर्षदे ॥१६॥ तमागतं समाकर्ण्य कौशाम्बीवासिनो जनाः । राजादयः समाजग्मुर्वन्दितुं तत्पदाम्बुजम् ॥१७॥ तावपि श्रेष्ठिसत्सूनू कुतूहलपरायणौ । जनेन सार्धमायातौ जिननायकसन्निधौ ॥१८॥ जिनस्तु देशयामास मोक्षमार्गं सनातनम् । सत्त्वानां सर्वकल्याणकारणं करुणापरः ॥१९॥ ततस्तयोर्वणिक्सून्वोरेकस्य तज्जिनोदितम् । श्रद्धानमार्गमायाति भाव्यते ऽथ स्वमानसे ॥२०॥ स्फाराक्षो मस्तकं धुन्वन् कर्णपर्णपुटार्पितम् । रोमाञ्चितः पिबत्युच्चैर्जिनवाक्यं यथाऽमृतम् ॥२१॥ तदन्यस्य तदाभाति वालुकाकवलोपमम् । अन्योऽन्यस्य च तौ भावं लक्षयामासतुस्तराम् ॥२२॥ व्याख्याभुवः समुत्थाय जग्मतुर्भवनं निजम् । तत्रैको व्याजहारैवं

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362