Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
२९१
परिशिष्टम् - ६ जलार्थित्वं तदाश्रयत वापिकाम् ॥४॥ ततः केचित् तदाकर्ण्य वापीमेव समाश्रिताः । भूयांसस्त्ववधीर्यैतन्मृगतृष्णां ययुः प्रति ॥५॥ ततो जलमनासाद्य ते विनाशमुपागताः । वापीं समाश्रिता ये तु बभूवुस्ते कृतार्थकाः ॥६॥ वापीतुल्योऽत्र विज्ञेयो गुरुगच्छो गुणालयः । धर्मार्थिनस्तु काकाभाश्चारित्रं जलसन्निभम् ॥७॥ मृगतृष्णासरस्तुल्या गुरुगच्छाद् बहिःस्थितिः । तच्छिक्षादायको ज्ञेयो गीतार्थस्तत्कृपापरः ॥८॥ चारित्रापात्रतां प्राप्ताः काकवत् केऽपि कुग्रहात् । गुरुगच्छबहिर्वासं संश्रिता ये तपस्विनः ॥९॥ अल्पास्तु केऽपि सद्बोधाच्चारित्रे पात्रतां गताः । काका इवैव ये धन्या गुरुगच्छमुपाश्रिताः ॥१०॥ इति गाथार्थः ॥११/३८॥
( ८ ) तैलपात्रि
बभूव नगरे क्वापि कोऽपि भूपालपुङ्गवः । श्रमणोपासकग्रामग्रामणीः करुणापरः ||१|| परिवारो निजस्तेन नागरोऽपि बहुर्जनः । जनितो जिनधर्मस्थः स्थायिभावो दयादिषु ॥२॥ किं तु श्रेष्ठिसुतः कोऽपि कथञ्चिन्नोपशान्तवान् । कुग्रहग्राहसंग्रस्तभावो भावितवांश्च सः ॥३॥ हिंसा धर्म एव स्याद् दुःखिनां दुःखमोचनात् । प्रापणाच्च सुखश्रीणां कर्तुं शक्या च सा यतः ॥४॥ सै युक्ता ततः कर्तुं नो दानादि यतस्तकत् । अर्थाधीनं स च प्रायो दुर्लभो दुर्व्यस्तथा ॥५॥ अप्रमादपरं जैनं शासनं तु निरर्थकम् । अशक्यं ह्यप्रमत्तत्वं कर्तुमित्यप्यमन्यत ॥६॥ श्रेष्ठिपुत्रस्य तस्यासावप्रमादविदूषिणः । पार्थिवो बोधनार्थाय चकारोपायमीदृशम् ॥७॥ यक्षाभिधानकं छात्र कुशलं जिनशासने । प्रेषयामास तद्गेहे हस्ते दत्त्वा वरं मणिम् ॥८॥ राजशिक्षानुसारेण तेनोक्तं श्रेष्ठिनन्दन ! यथा देशान्तरीयोऽहमत्यर्थं राजवल्लभः ||९|| नृपस्य भिन्नबोधस्य बोधनार्थं समुद्यतः । तुल्यबोधावहं त्वं च नान्योऽत्र नगरेऽस्ति नौ ॥ १०॥ इत्यादिविविधालापान् कुर्वता प्रतिवासरम् । छात्रेण श्रेष्ठिपुत्रस्य प्रेमोत्पादितमात्मनि ॥११॥ ततो विश्रंभितस्यैवं वणिक् सूनोरपश्यतः । तेन छात्रेण तद् रत्नं न्यस्तं तद्रत्नभाजने ॥१२॥ सुन्यस्तं तत्र तत् कृत्वा गत्वा च नृपसन्निधौ । यक्षच्छात्रो यथावृत्तं वृत्तान्तं तं न्यवेदयत् ॥१३॥ नृपोऽप्याज्ञापयल्लोके प्रहतोद्दामडिंडिमम् । यथा भो मुद्रिकारलं भ्रष्टं नष्टं च भूपतेः ॥१४॥ ततोऽर्पयतु येनाप्तमित्येवमपि घोषिते । यदा नाप्तं तकद् राज्ञा तदाहूतः पुरीजनः ॥१५॥ उक्ताश्च तेन भोः पौरा मदीयाध्यक्षसंयुताः । गवेषयत तत्सम्यक् प्रतिगृहमिह द्रुतम् ॥१६॥ क्रमेण चेक्षमाणैस्तैस्तद् रत्नमवलोकितम् । तस्यैव श्रेष्ठिपुत्रस्य गेहे माणिक्यभाजने ॥१७॥ ततो राजापकारीति गृहीतो दण्डपाशिकै: । आघातं नेतुमारब्धो वधायासौ वणिक्सुतः ॥१८॥ अवादित् तानसौ दोष शुद्धिमत्र करोम्यहम् । तेऽप्यूचुर्नास्ति ते शुद्धिर्वधादन्या दुरात्मनः ॥१९॥ अथोवाच स तानेवमनवद्योऽपि यद्यहम्। हन्ये तथापि राजानं तावद् विज्ञापयाम्यहो ॥२०॥ ततः सोऽभ्यर्थयामास यक्षच्छात्रं यथा मयि । विज्ञापय नृपं मित्र ! यथासौ देव ! दण्ड्यताम् ॥२१॥

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362