Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
२९३
परिशिष्टम् - ६ ताडितास्ते तु स्वमातृभ्यो न्यवेदयन् । तं च ताः कुपिताः शापैश्चकुरुद्वेगभाजनम् ॥१३॥ एवं ते रज्ञाना: सूरिणा समुपेक्षिताः । इतश्च मथुरानाथ आसीत् पर्वतको नृपः ॥ १४ ॥ तत्सुता निर्वृतिर्नाम यौवनोद्भेदसुन्दरा। वरार्थे तेन साऽवाचि भर्तारं वृणु वाञ्छितम् ॥१५॥ सा पुनस्तमनुज्ञाप्याचलदिन्द्रपुरं प्रति । राजपुत्रा यतस्तत्र भूयांसः सन्ति सद्गुणाः ॥ १६ ॥ ततः सेन्द्रपुरं प्रापदाप्तलोकसमन्विता । तुष्टेन चेन्द्रदत्तेन राज्ञाऽकारि पुरे महः ||१७|| निर्वृत्या भणितं राज्ञो राधावेधं करिष्यति । यः कुमारः स मे भर्ता भविष्यत्यपरो न तु ॥ १८ ॥ तदाकर्ण्य नृपो रङ्ङ्गं कारयामास तत्र च । एकत्राक्षेऽष्ट चक्राणि तत्पुरः पुत्रिकां तथा ॥ १९॥ सा च चक्षुषि बाणेन भेत्तव्याऽधोविवर्तिना । ततः सैन्ययुतो राजा रङ्गे तस्थौ सपुत्रकः ॥२०॥ निर्वृतिश्चैकदेशेऽस्य स्थिताऽलङ्कृतविग्रहा । यथास्वं च निविष्टेषु सामन्तनागरादिषु ॥ २१॥ आदिष्टो ज्येष्ठपुत्रोऽथ राज्ञा श्रीमालिनामकः । भित्त्वा राधां गृहाणेमां कन्यां राज्यं च पुत्रक ! ॥ २२ ॥ ततः सोऽशिक्षितत्वेन साध्वसोत्कंपिविग्रहः । शशाक नैव तां भेत्तुमेवं ते शेषका अपि ॥ २३॥ ततो राजा स्वपुत्राणां मूर्खतां वीक्ष्य तत्क्षणात् । शुशोच हस्तविन्यस्तगण्डो भून्यस्तदृष्टिकः ॥ २४ ॥ ततोऽमात्यस्तमापृच्छत् किं देव ! दैन्यवान् भवान् । सोऽवोचद्दुः सुतैरेतैरहं भो धर्षितो जने ॥ २५ ॥ ततोऽमात्योऽवदद्भूपं यथाऽन्योऽपि च ते सुतः । विद्यते सोऽपि देवेन राधावेधे नियुज्यताम् ॥२६॥ राजाऽवोचत् कुतो मेऽन्यः सुतोऽमात्योऽप्यवोचत । मन्नप्तास्ति ततः पत्रं दर्शयामास तस्य तत् ॥२७॥ संजातप्रत्ययो राजा संतुष्टस्तं बभाण च । आनयामात्य ! मत्पुत्रं तस्य तं सोऽप्यदर्शयत् ॥२८॥ आलिङ्ग्य मूर्ध्नि चाघ्राय तं बभाषे सुतोत्तमम् । कन्यां गृहाण राज्यं च भित्त्वा राधां महाद्भुताम् ॥२९॥ यदादिशति तातस्तत् करोमीत्यभिधाय सः। धनुर्वेदोपदेशेन राधां भेत्तुमुपस्थितः ॥ ३०॥ तान्यस्य चेटरूपाणि ते च द्वाविंशतिः सुताः । उत्खातासी नरौ द्वौ च नाना चक्रुरुपद्रवान् ॥३१॥ कलाचार्योऽप्यवोचत्तं न चेद्राधां विभेत्स्यसि । तदेतौ ते शिरो वत्स ! छेत्स्यतो दारुणौ नरौ ॥३२॥ ततोऽसावपकर्यैतान् लब्धलक्षोऽप्रमादवान् । चक्राणामन्तरं ज्ञात्वा राधां झगिति विद्धवान् ॥३३॥ ततश्चास्फालितं तूर्यं साधुकारः कृतो जनैः । राजादिस्तोषितो लोक ऊढा कन्या च तेन सा ॥३४॥ इति ॥१४/२९॥
(१०) मरुकज्ञातम्
मरुकज्ञातं चैतत्-नगरे पाटलीपुत्रे विप्र आसीत् त्रिलोचनः । वेदवेदाङ्गर्भार्थविशारदशिरोमणिः ॥१॥ तस्य पार्श्वे बटुः कोऽपि समायातः प्रणम्य तम् । उवाच मयका मोहात् परदाररतिः कृता ॥२॥ तस्य पापस्य मे शुद्धिः क्रियतां सोऽप्यभाषत । तद्भावस्य परीक्षार्थं यथा भो विप्रपुत्रक ! ॥३॥ तप्तां लोहमयीं नारीं फुल्लकिंशुकसन्निभाम् । आलिङ्गय यतो नान्यत् प्रायश्चित्तमिहागसि ||४|| तेनापि पापभीतेन प्रतिपन्नमिदं ततः । सोऽपि विज्ञाय तद्भावं शुद्धिमन्यां न्यवेदयत् ॥५॥ इति ।

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362