Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 327
________________ परिशिष्टम्-६ ____२८६ (२)द्रव्यस्याप्रधानार्थकत्वेऽङ्गारमर्दकाचार्यदृष्टान्तः इहैव निदर्शनमाह-अंगारमर्दकः प्रवचनप्रतीत:.........एतत्संबन्धे विधानकं चैवं श्रूयतेसूरिविजयसेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनकाभिधे ॥१॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गवैः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥२॥ कलभानां शतैः शूरैः शूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ॥३॥ ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् । सूरिस्तूवाच तस्यार्थं साधूनां पृच्छताममुम् ॥४॥ सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्राघूर्णकः परं भव्यो नासाविति विनिश्चयः ॥५॥ यावज्जल्पत्यसौ तेषां साधूनां सूरिरग्रतः । रुद्रदेवाभिधः सूरिरस्तावत्तत्र समागतः ॥६॥ शनैश्चर इव स्फारसौम्यग्रहगणान्वितः । एरण्डतरुवत् कान्तकल्पवृक्षगणान्वितः ॥७॥ कृता च तस्य तैस्तूर्णमभ्युत्थानादिका क्रिया । आतिथेयी यथायोगं सगच्छस्य यथाऽऽगमम् ॥८॥ ततो विकालवेलायां कोलाकारस्य तस्य तैः । परीक्षणाय निक्षिप्ता अङ्गाराः कायिकाभुवि॥९॥ स्वकीयाचार्यनिर्देशात् प्रच्छनैश्च तकैः स्थितैः । वास्तव्यसाधुभिर्दृष्टास्ते प्राघूर्णकसाधवः ॥१०॥ पादसञ्चूर्णिताङ्गारक्रशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् बुवाणाः प्राणिशङ्कया ॥११॥ क्रशत्कारारवस्थाने कृतचिह्ना इतीक्षया । दिने निभालयिष्यामः क्रशत्कारः किमुद्भवः ॥१२॥ आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम्। क्रशत्काररवं कुर्वनङ्गारपरिमर्दनात् ॥१३॥ जीवाऽ श्रद्धानतो मूढो वदंश्चैतज्जिनैः किल । जन्तवोऽमी विनिर्दिष्टाः प्रमाणैय॑क्कृता अपि॥१४॥ वास्तव्यसाधुभिर्दृष्टो यथादृष्टं च साधितम् । सूरेविजयसेनस्य तेनापि गदितं ततः ॥१५॥ स एष शूकरो भद्रास्त एते वरहस्तिनः । स्वप्नेन सूचिता ये वो न विधेयोऽत्र संशयः ॥१६॥ तैः प्रभातेऽत्र तत्शिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुध्यताम् ॥१७॥ त्याज्यो वोऽयं यतो घोरसंसारतरुकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विवर्जितः ॥१८॥ ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः। ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽमुत्रैव भारते ॥१९॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् ॥२०॥ अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः । सर्वत्र ख्यातकीर्तित्वात् सर्वानाशुन्यमन्त्रयत् ॥२१॥ हस्तिनागपुरे राजा कनकध्वजसञ्जितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ॥२२॥ तत्रायातैः स तैर्दृष्टो गुरुरङ्गारमर्दकः । उष्ट्रत्वेन समुत्पन्नः पृष्ठारूढमहाभरः ॥२३॥ गलावलम्बितस्थूलकुतुपोऽपेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥२४॥ तमुष्ट्रमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः ॥२५॥ देवजन्मोद्भवज्ञानज्ञातत्वात् तैरसौ स्फुटम् । करभः प्रत्यभिज्ञातो यथाऽयं बत नो गुरुः ॥२६॥ ततस्ते चिन्तयामासुर्धिक् संसारविचेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ॥२७॥ अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोऽसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362