________________
२८७
परिशिष्टम्-६ ॥२८॥ ततस्तदैव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात् ते प्रव्रज्यां प्रपेदिरे ॥२९॥ ततः सुगतिसन्तानान्निास्यन्त्यचिरादमी। अन्यः पुनरभव्यत्वाद्भवारण्ये भ्रमिष्यति ॥३०॥ इति गाथार्थः ॥६/१३॥
(३) शुभभावस्य बोधिबीजकारणता स्तेनज्ञातेन
स एवासावेव परिशुद्धः शुभभाव एव जायते संपद्यते । बीजमिव बीजं कारणं । बोधेः सम्यग्दर्शनस्य । अयं चार्थः कथं समर्थनीय इत्याह-स्तेनज्ञातेन चौरोदाहरणेन । तच्चेदम्इहाभूतां नरौ कौचिदन्योऽन्यं दृढसौहृदौ । युवानौ साहसोपेतौ चौरौस्वबलगवितौ ॥१॥ भोगलुब्धौ समस्तेच्छापूरकद्रव्यवर्जितौ। तौ च चौर्यं व्यधासिष्टां भोगवाञ्छाविडम्बितौ ॥२॥ दंडपासिकलोकेन संप्राप्तावन्यदा तकौ । नीयमानौ च तौ तेन वध्यस्थानं तपस्विनौ ॥३।। दृष्टवन्तौ मुनीन् मान्यान् मानिमानवसंहतेः । साधूनां सत्क्रियां दृष्ट्वा तयोरेको व्यचिन्तयत् ॥४॥ अहो धन्यतमा एते मुनयो विमलक्रियाः । स्वकीयगुणसन्दोहाज्जगतां पूज्यतां गताः ॥५॥ वयं पुनरधन्यानामधन्या धनकाङ्क्षया। विदधाना विरुद्धानि वध्यतां प्रापिता जनैः ॥६॥ धिक्कारोपहतात्मानो यास्यामः कां गतिं मृताः ? ही जाता दुःस्वभावेन लोकयविराधकाः ॥७॥ तदेवं साधु साधूनां वृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः ? ॥८॥ अन्यः पुनरुदासीनो भवति स्म मुनीनभि। गुणिरागादवापैको बोधिबीजं न चापरः ॥९॥ ततस्तनुकषायत्वादानशीलतया च तौ। नरजन्मोचितं कर्म बद्धवन्तावनिन्दितम् ॥१०॥ मृत्वा च तौ समुत्पन्नौ कौशाम्ब्यां पुरि वाणिजौ । जातौ चानिन्दिताचारौ वणिग्धर्मपरायणौ ॥११॥ जन्मान्तरीयसंस्कारादाबालत्वात् तयोरभूत् । अत्यन्तमित्रताभावो लोकाश्चर्यविधायकः ॥१२॥ रोचते च यदेकस्य तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेकचित्ताविमाविति॥१३॥ ततः कुलोचितं कर्म कुर्वतोर्यान्ति वासराः । अन्यदा भुवनानन्दी प्राप्तस्तत्र जिनेश्वरः ॥१४॥ भगवान श्रीमहावीर इक्ष्वाकु कुलनन्दनः । वाग्नीरैर्जनसंतापशमनेऽम्भोदसन्निभः ॥१५॥ विदधुस्तस्य गीर्वाणा व्याख्याभूमिं मनोहराम् । तत्रासौ धर्माचख्यौ सनरामरपर्षदे ॥१६॥ तमागतं समाकर्ण्य कौशाम्बीवासिनो जनाः । राजादयः समाजग्मुर्वन्दितुं तत्पदाम्बुजम् ॥१७॥ तावपि श्रेष्ठिसत्सूनू कुतूहलपरायणौ । जनेन सार्धमायातौ जिननायकसन्निधौ ॥१८॥ जिनस्तु देशयामास मोक्षमार्गं सनातनम् । सत्त्वानां सर्वकल्याणकारणं करुणापरः ॥१९॥ ततस्तयोर्वणिक्सून्वोरेकस्य तज्जिनोदितम् । श्रद्धानमार्गमायाति भाव्यते ऽथ स्वमानसे ॥२०॥ स्फाराक्षो मस्तकं धुन्वन् कर्णपर्णपुटार्पितम् । रोमाञ्चितः पिबत्युच्चैर्जिनवाक्यं यथाऽमृतम् ॥२१॥ तदन्यस्य तदाभाति वालुकाकवलोपमम् । अन्योऽन्यस्य च तौ भावं लक्षयामासतुस्तराम् ॥२२॥ व्याख्याभुवः समुत्थाय जग्मतुर्भवनं निजम् । तत्रैको व्याजहारैवं