________________
परिशिष्टम् - ६
२८८
भ्रातस्त्वं भावितः किल ॥२३॥ जैनवाचा न चाहं भोस्तदत्र किमु कारणम् । एकचित्ततया ख्यातावावां लोक इयञ्चिरम् ॥ २४॥ इदानीमत्र सञ्जातं विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ||२५|| सत्यमेवं ममाप्यत्र विकल्पः संप्रवर्तते । केवलं केवली नूनं निश्चयं नः करिष्यति ॥२६॥ स एव प्रश्रितोऽत्रार्थे तद्यातास्वस्दन्तिके । एवं तौ निश्चयं कृत्वा प्रातर्यातौ तदन्तिकम् ॥२७॥ पप्रच्छतुस्तमाराध्यं विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन साधवो वां प्रशंसिताः ॥२८॥ न चान्येन तदेकस्य जातं बीजस्य सत्फलम् । सद्बोधरूपमन्यस्याबीजत्वेन न चाभवत् ॥२९॥ एवं पूर्वभवासेवां जिनेनोक्तां सविस्तराम् । निशम्यैकस्य संजातं जातेः संस्मरणं क्षणात् ॥३०॥ ततोऽसौ प्रत्यये जाते जातः संवेगभावितः । भावतश्च जिनोद्दिष्टं प्रपेदे शासनं शुभम् ॥३१॥ तत्प्रतिपत्तिसामर्थ्यात् शुभकर्मानुबन्धतः । सिद्धिं यास्यत्यसौ काले पर: संसारमेव हि ॥३२॥ ततः स्थापितमेतेन भावो जैनमताश्रयः । स्वल्पोऽपि जायते बीजं निर्वाणसुखसंपदाम् ॥३३॥ इति गाथार्थः ॥७/८ ॥
(४) अप्रीतिपरिहारे श्रीवीरज्ञातम्
भावार्थः कथानकगम्य: । तच्चेदम् - जिनः श्रीमान्महावीरो वीरितान्तरशात्रवः । प्राज्यं राज्यं परित्यज्य प्रव्रज्यां प्रतिपद्य च ॥१॥ निःसंगोऽतिमहासत्त्वः सत्त्वानां रक्षणोद्यतः । ग्रामादिसंकुलां पृथ्वीं छद्मस्थो विहरन्नसौ ॥२॥ मथुराकाभिधं ग्रामं संप्राप्तस्तत्र चाश्रमः । दूयमानाभिधानानां पाखण्डिगृहिणामभूत् ॥३॥ तेषां कुलपतिर्मित्रमासीद्भगवतः पितुः । महावीरमसौ दृष्ट्वा संभ्रमेण समुत्थितः ॥४॥ स्नेहादालिङ्गनार्थाय श्रीजिनस्य ततो जिन: । बाहुं प्रसारयामास तं प्रति प्राक् प्रयोगतः ॥५॥ सोऽवोचत् सन्ति वेश्मानि योग्यान्यत्राश्रमे तव । ततः कुमार ! तिष्ठ त्वमत्राथ जिननायकः ॥६॥ एकां तत्र स्थितो रात्रिमन्यत्र गतवांस्ततः । गच्छन्तं च जिनं स्नेहादवोचत् तापसाधिपः ॥७॥ यद्यत्र रोचते तुभ्यं तदागत्य विधीयताम् । वर्षावासो जनस्यास्यानुग्रहार्थं त्वया मुनेः!॥८॥ मासानष्टौ विहृत्याथ तं ग्राममागमज्जिनः । उपागतासु वर्षासु मठं चैकमुपाश्रितः ॥९॥ प्रारंभे प्रावृषस्तत्राप्राप्नुवन्ति नवं तृणम् । गोरूपाणि मठानां तत् प्रचखादुः पुरातनम् ॥१०॥ तापसा वारयन्ति स्म तानि ते दण्डपाणयः । भट्टारकः पुनस्तानि निःसंगत्वादुपेक्षते ॥११॥ ततस्ते तापसाः स्वस्य नायकस्य न्यवेदयन् । यथैष भवतामिष्टो गोभ्यो नावति नो मठम् ॥१२॥ ततः कुलपतिर्गत्वा बभाण श्रीजिनं प्रति । कुमार ! भो न युक्तं ते मठस्योपेक्षणं यतः ॥ १३ ॥ शकुन्तोऽपि निजं नीडं रक्षत्येव यथाबलम् । ततो गावो निवार्यास्ते नाशयन्त्यो मठं स्वकम् ॥ १४ ॥ इत्येवं शिक्षयामास सपिपासमसौ जिनम् । ततः स्वामी तदप्रीतिं ज्ञात्वा निर्गतवांस्ततः ॥ १५ ॥ प्रावृषोऽतिगते पक्षे अस्थिकग्राममाययौ । अप्रीतिपरिहाराय यतेतैवं यथा जिनः ॥ १६ ॥ इति गाथार्थः ॥७/१५॥
I