________________
२८९
परिशिष्टम् - ६
(५) माषतुषदृष्टान्तः -
कथानकसंप्रदायश्चैवम् – बभूव कश्चिदाचार्यो गुणरत्नमहानिधिः । श्रुतमध्वर्थिशिष्यालिसेव्यमानक्रमाम्बुजः ॥१॥ सूत्रार्थपाथसां दाने महाम्भोद इवाश्रमः । सङ्घादिकार्यभाराणां निस्ता धुर्यसन्निभः ॥२॥ तस्यैवान्योऽभवद् भ्राता विशिष्टश्रुतवर्जितः । स्वेच्छया स्थाननिद्रादेः कर्ता स्वार्थपरायणः ॥३॥ तत्र सूरिः क्वचित् कार्ये श्रान्तः सन्मुग्धबुद्धिभिः । अज्ञातावसरैः शिष्यैर्व्याख्यानं कारितः किल ॥४॥ ततोऽसौ श्रान्तदेहत्वाद् व्याख्यायामक्षमत्वतः । चित्तखेदं जगामाथ चिन्तयामास चेदृशम् ॥५॥ धन्योऽयं पुण्यवानेष मद्भ्राता निर्गुणो यतः । सुखमास्ते सुखं शेते पारतन्त्र्यविवर्जितः ॥६॥ वयं पुनरधन्या ये स्वगुणैरेव वश्यताम् । परेषां प्रापिताः स्थातुं सुखेन न लभामहे ॥७॥ एवं चिन्तयता तेन निबद्धं कर्म सूरिणा । ज्ञानावरणमत्युग्रं ज्ञानावज्ञानिमित्ततः ॥८॥ नालोचितं च तत् तेन ततो मृत्वा दिवं गतः । ततोऽप्यसौ च्युतः क्वापि सत्कुले जन्म लब्धवान् ||९|| साधुसंपर्कात् बुद्धोऽसौ जिनशासने । सद्गुरूणां समीपेऽथ प्रवव्राज विरागतः ॥१०॥ ततोऽसौ सूरिपादान्तेऽधीते सामायिकं श्रुतम् । उदीर्णं च तकत् तस्य कर्म जन्मान्तरार्जितम् ॥११॥ तस्योदयान्न शक्नोति ग्रहीतुं पदमप्यसौ । प्रपठन्नप्यविश्रामं बहुमानयुतोऽपि सन् ॥१२॥ ततः सूरिरशक्तं तं पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थं तं संक्षेपादपीपठत् ॥१३॥ यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः । घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥१४॥ ततो महाप्रयत्नेन संस्मृत्य किल कञ्चन । तत्रासौ घोषयामास तुष्टो माषतुषेत्यलम् ॥ १५ ॥ ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया । ख्यातिं नीतो महात्मासौ बालिशैः क्रीडनापरैः ||१६|| अदोऽपि विस्मरत्येष तदा मोहात् तदा तकम् । न्यस्तचित्तमवाचं च हसन्तो बालका जगुः ॥१७॥ अहो माषतुषः साधुरेष मौनेन तिष्ठति । एवमुक्तः स तैर्मेने साधु भोः स्मारितं मम ॥ १८ ॥ ततोऽधीते तदेवासौ मन्यमानोऽत्यनुग्रहम् । साधवस्तु यदा श्रुत्वा प्रेरयन्ति स्म चादरात् ॥ १९ ॥ शिक्षयन्ति स्म तं साधो मा रुष्येत्यादि घोषय । तत: प्रमोदमापन्नो घोषयामास तत्तथा ||२०|| एवं सामायिकस्यार्थेऽप्यशक्तो गुरुभक्तितः । ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥२१॥ इति गाथार्थः ॥११/७॥
(६) चण्डरूद्रोदाहरणम्
कथानकं चैवं दृश्यते- चण्डरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः । ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः ॥१॥ असमाचारसंलोकसंज्वलत्कोपवाडवः । संक्लेशपरिहाराय गच्छपार्श्वे स्म तिष्ठति ॥२॥ विहरग्श्च समायात उज्जयिन्यां कदाऽप्यसौ । विविक्तोद्यानदेशे च तस्थौ गच्छस्य