SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ६ २९० सन्निधौ ॥३॥ अथ श्रीमत्सुतः कोऽपि सुरूपो नवयौवन: । प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः ॥४॥ विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ । तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः ॥५॥ अस्मत्सखममुं यूयं हे भदन्ता ! विरागिणम् । निर्विण्णं भवकान्तारात् प्रव्राजयत सत्वरम् ॥६॥ साधवस्तु तकान् ज्ञात्वा चसूरीकरणोद्यतान् । औषधं सूरिरेवैषामित्यालोच्य बभाषिरे ||७|| भो भद्रा ! गुरवोऽस्माकं कुर्वते कार्यमीदृशम् । वयं तु नो ततो यात गुरूणामन्तिकं लघु ॥८॥ केलिनैव ततो गत्वा गुरुमूचुस्तथैव ते । सूरिणा भणितं तर्हि भस्मानयत सत्वरम् ॥९॥ येनास्य लुञ्चनं कुर्मो वयस्यैस्तु ततो लघु । तदानीतं ततः सूरिः पञ्चमङ्गलपूर्वकम् ॥१०॥ लुञ्चनं कर्तुमारेभे तद् वयस्यास्तु लज्जिताः । चिन्तितं चेभ्यपुत्रेण कथं यास्याम्यहं गृहे ॥ ११ ॥ स्वयमाश्रितसाधुत्वः सलुञ्चितशिरोमुखः । ततो विसृज्य मित्राणि गुरुमेवमुवाच सः ॥ १२ ॥ भदन्त ! परिहासोऽपि सद्भावोऽजनि मेऽधुना । रङ्कत्वेनापि तुष्टस्य सौराज्यं मे समागतम् ॥ १३ ॥ ततः स्वजनराजाद्या यावन्नायान्ति मत्कृते । तावदन्यत्र गच्छामो नो चेद् बाधा भविष्यति ॥ १४॥ गुरुर्बभाषे यद्येवं ततो मार्गं निरूपय । तथैव कृतवानेष वृत्तौ गन्तुं ततस्तकौ ॥ १५ ॥ आचार्यः पृष्ठतो याति पुरतो याति शिष्यकः । रात्रौ वृद्धत्वतोऽपश्यन् मार्गं प्रस्खलितो गुरुः ॥ १६ ॥ रे दुष्टशैक्ष ! कीदृक्षो मार्ग: संवीक्षितस्त्वया । इति ब्रुवाणो दण्डेन शीर्षे तं हतवान् कुधा ॥ १७॥ एवं स चण्डरोषत्वात् च्चलितः स्खलितः पथि । शिरस्यास्फोटयन् याति तं शैक्षं क्षमिणां वरम् ॥१८॥ शैक्षस्तु भावयामास मन्दभाग्योऽस्म्यहं यतः। महाभागो महात्माऽयं महाकष्टे नियोजितः ||१९|| भगवानेष सौख्येन स्वगच्छे निवसन् मया । अहो दशां महाकष्टां प्रापितः पापिना मुधा ||२०|| एवं भावयतस्तस्य प्रशस्तध्यानवह्निना । दग्धकर्मेन्धनत्वेन केवलज्ञानमुद्गतम् ॥२१॥ ततस्तं तद्बलेनासौ सम्यग् नेतुं प्रवृत्तवान् । प्रभाते च स तं दृष्ट्वा क्षरल्लोहितमस्तकम् ॥२२॥ आत्मानं निन्दति स्मैवमधन्योऽहमपुण्यवान् । यस्य मे सति रोषाग्निशममेघे बहुश्रुते ॥२३॥ परोपदेशदक्षत्वे बहुकाले च संयमे । न जातो गुणरत्नानां प्रधानः क्षान्तिसद्गुणः ||२४|| अयं तु शैक्षो धन्योऽत्र गुणवानेष सत्तमः । यस्याद्यदीक्षितस्यापि कोऽप्यपूर्वः क्षमागुणः ॥ २५॥ एवं सद्भावनायोगाद्वीर्योल्लासादपूर्वतः । आचार्यश्चण्डरुद्रोऽपि संप्राप्तः केवलश्रियम् ॥२६॥ इति गाथार्थः ॥११/३५॥ T (७) गुरुकुलमोचने काकज्ञातम् काकज्ञातं चैवम्-सुस्वादुशीतलं स्वच्छं पद्मरेणुसुगन्धि च । धारयन्ती जलं वापी काचिदासीन्मनोहरा ॥१॥ तस्यास्तटेऽभवन् काकास्तेषु चाल्पे पिपासिताः । अन्विच्छन्तोऽपि पानीयं नाश्रयन्ति स्म ते च ताम् ॥२॥ ततो दृष्ट्वा पुरोवर्तिमृगतृष्णासरांसि ते । तानि प्रति प्रयान्ति स्म वापीं हित्वा जलार्थिनः || ३|| कश्चित् तु तानुवाचैवमेषा भो मृगतृष्णिका । यदि वोऽस्ति
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy