SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २२२ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-२२-२५ राजावितीर्णचामराद्यलङ्कार ईश्वरः, तत्प्रभृतिः, तलवरमण्डवा[माडम्बिका]धिपाद्यैः, प्रविशद्भिनिष्क्रामद्भिश्च सपरिकरैः, तस्मिन् राजकुले, व्याघातोऽवधीरणा स्खलना, आत्मीयस्वाध्यायादिकार्यविघातो वा, तस्मिन्नेव खद्धे प्रभृते लभ्यमाने, लोभः प्रभूतलोभः खद्धे प्रभूते (= हैमदेशीनाममाला २.६७) प्रभूतार्थोऽयं खद्धः शब्दः देश्यः । उदाराणामुदारशरीराणां हस्त्यश्वस्त्रीपुरुषादीनां दर्शने सङ्गोऽभिष्वङ्गः, कस्यचित् स्यात् । गर्दा निरभिष्वङ्गा “यतय एते किल, तथाप्यदृष्टकल्याणवत्, सङ्गं कुर्वन्ति व्याक्षिप्तचेतसः परसमृद्धिषु"इत्येवं निन्दा । एते व्याघातयो दोषा राजपिण्डग्रहणे, पूर्वेतरसाधूनां प्रमादसम्भवात् इतरेषां मध्यमतीर्थकृत्साधूनां न व्याघातादयो दोषाः, अप्रमादात् प्रमादाभावाद्धेतोः तेषां हि भगवतामृजुप्रज्ञत्वाद्विशिष्टतराप्रमादसचिवं सर्वमेवानुष्ठानमतो विशेषः ॥२१॥ अष्टविधत्वप्रतिपादनायाह - असणादीया चउरो, वत्थं पायं च कंबलं चेव । पाउंछणगं च तहा, अट्ठविहो रायपिंडो उ ॥८१६॥ १७/२२ अशनादिका अशन-पान-खाद्य-स्वाद्याहाराः चत्वारः, वस्त्रं पात्रं च कम्बलश्चैव पादप्रोञ्छनकं च रजोहरणाख्यं तथा । अष्टविधो राजपिण्डस्तु, एषोऽष्टविधः परिवर्जनीयः ॥२२॥ कितिकम्मं ति य दुविहं, अब्भुट्ठाणं तहेव वंदणगं । समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥८१७॥ १७/२३ कृतिकर्मेति च द्विविधम् अभ्युत्थानमभिमुखमुत्थानम् तथैव वन्दनकं द्वादशावर्तादि, श्रमणैः साधुभिः श्रमणीभिश्च साध्वीभिः यथार्ह यथायोग्यं भवति कर्तव्यं विधेयम् ॥२३॥ सव्वाहिं संजतीहिं, कितिकम्मं संजयाण कायव्वं । पुरिसोत्तमो त्ति धम्मो, सव्वजिणाणं पि तित्थेसु ॥८१८॥ १७/२४ सर्वाभिः संयतीभिः संयमवतीभिः, कृतिकर्म प्रस्तुतं संयतानां साधूनां कर्तव्यमनुष्ठेयम् । पुरुषोत्तमः पुरुषप्रधानो धर्म इति कृत्वा, सर्वजिनानामपि चतुर्विशतेरपि, तीर्थेषु प्रवचनेषु ॥२४॥ व्यतिरेके दोषमाह - एयस्स अकरणंमी, माणो तह णीयकम्मबंधो त्ति । पवयणखिंसाऽयाणग, अबोहि भवबुड्ढि अरिहंमि ॥८१९॥ १७/२५
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy