SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ गाथा-१८-२११७-स्थिताऽस्थितकल्पं-पञ्चाशकम् __२२१ दोषानेवाह - तित्थंकरपडिकुट्ठो, अण्णायं उग्गमो वि य न सुज्झे । अविमुत्ति यऽलाघवया, दुल्लहसेज्जा विउच्छेओ ॥८१२॥ १७/१८ तीर्थकरैर्भगवद्भिः प्रतिकृष्टः प्रतिषिद्धः अज्ञातमज्ञातोञ्छमज्ञातचर्या । उद्गमोऽपि चोद्गमदोषरूपः, न शुध्यति न शुद्धिमासादयति । अविमुक्तिः सलोभता । न विद्यते लाघवमस्येत्यलाघवस्तद्भावः अलाघवता । प्रतिबन्धानलाघवमासेवितं भवति, दुर्लभशय्या येन शय्या देया, तेन किलाहारोऽपि देयः तत्प्रदानशक्त्यभावे, साधूनां किं तयैव केवलया दत्तयेति गृहपत्यभिप्रायात्, दुर्लभा शय्या जायते, यदैवाश्रयाऽऽहारदानसामर्थ्यं तदैव तां दद्यान्नान्यदा, व्यवच्छेदः शय्याया एव, आगमिनि काले विशिष्टसामर्थ्याभावेन निर्वाहाभावात्, पूर्वमपि सति सामर्थ्य कश्चिन्न दद्यादित्येवमुभयावस्थयोरपि शय्याव्यवच्छेदः । शय्यातरपिण्डग्रहणे समयोक्ता दोषाः ॥१८॥ पडिबंधनिरागरणं, केई अण्णे अगहियगहणस्स । तस्साउंटणमाणं, एत्थऽवरे बेंति भावत्थं ॥८१३॥ १७/१९ प्रतिबन्धनिराकरणं ममत्वनिरासम्, केचिदन्येऽपरे [आचार्या,] अगृहीतग्रहणस्य, अगृहीतभक्तपानादेः तस्य शय्यातरस्य, आकुंटनमावर्जनम्, आज्ञां सर्वज्ञाज्ञाम् अत्रापरे ब्रूवन्ति प्रतिपादयन्ति, भावार्थं तात्पर्यम् ॥१९॥ मुदितादिगुणो राया, अट्ठविहो तस्स होति पिंडो त्ति । पुरिमेयराणमेसो, वाघातादीहिं पडिकुट्ठो ॥८१४॥ १७/२० मुइओ मुद्धभिसित्तो, मुइजो जो होई जोणिसुद्धो उ। अहिसित्तो उ परेहि, सयं भरहो जहा राया ॥ [बृहत्कल्पभाष्य गाथा-६३८, निशीथभाष्य गाथा-२४९८] मुदितादिगुणो राजा, इत्यादि चागमोक्तः । अष्टविधो वक्ष्यमाणः, तस्य राज्ञः, भवति पिण्ड इति यः प्रस्तुतो राजपिण्डः, पूर्वेतराणां साधूनां ऋषभ-महावीरसम्बन्धिनाम् एष राजपिण्डः, व्याघातादिभिर्वक्ष्यमाणैः दोषैः प्रतिक्रुष्टः प्रतिषिद्धः ॥२०॥ व्याघातादीनेवाहुः - ईसरपभितीहि तहिं, वाघातो खद्धलोहुदाराणं । दसणसंगो गरहा, इयरेसि न अप्पमादाओ ॥८१५॥ १७/२१
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy