________________
२२०
१७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-१४-१७ ___ अमहाधनैरमहामूल्यैः भिन्नैश्चखण्डितैः, आचेलक्यमचेलकत्वम्, इहाधिकारे भवति सम्भवति, वस्त्रैराच्छादनैः लोकागमनीत्या लोकन्यायेनाऽऽगमन्यायेन च, अचेलकत्वं प्रस्तुतम्, प्रत्ययतः प्रतीतेः, लोकेऽनुचितवस्त्रे(स्य) सद्भावे तद् व्यवह्रियते, आगमेऽपि तद्विषयप्रतिबन्धाभावेन ततः प्रतीतमेवैतत् ॥१३॥ उद्देसियं तु कम्मं, एत्थं उद्दिस्स कीरते तयं ति ।एत्थ वि इमो विभागो, णेओ संघादवेक्खाए ॥८०८॥ १७/१४
औद्देशिकंतु कर्म आधाकर्म, अत्र प्रस्तावे उद्देश्य मनसिकृत्य, क्रियते विधीयते, तकदिति तदौदेशिकम् । अत्राप्ययं विभागोऽर्थव्याख्यारूपः, ज्ञेयो ज्ञातव्यः, सङ्घाद्यपेक्षया ॥१४॥
एतदेव व्याचष्टे - संघादुद्देसेणं, ओघादीहिं समणाइ अहिकिच्च । कडमिह सव्वेसि चिय, न कप्पई पुरिमचरिमाणं ॥८०९॥ १७/१५
सङ्घायुद्देशेन, आदिशब्दात् कुलगणादिपरिग्रहः, ओघादिभिः समयोक्तप्रकारैः, श्रमणादीन, आदिशब्दाच्छ्रमण्यादिसकलविशेषग्रहः, अधिकृत्याऽङ्गीकृत्य कृतं निर्वतितम् इह स्थितकल्पप्रस्तावे, सर्वेषामेव निरवशेषाणामेव, विवक्षितश्रमणाद्यपेक्षया, न कल्पते पूर्वचरमजिनसाधूनां प्रस्तुतानाम् ॥१५॥
मज्झिमगाणं तु इयं, कडं जमुद्दिस्स तस्स चेव त्ति । नो कप्पड़ सेसाण उ, कप्पइ तं एस मेर त्ति ॥८१०॥ १७/१६
मध्यमकानां मध्यमतीर्थकरसाधूनां त्विदं प्रक्रान्तौद्देशिकं कृतं निर्वतितं यं विवक्षितं उद्दिश्याधिकृत्य, तस्य चैवेति तस्यैव विवक्षितसाध्वादेः नो नैव कल्पते,शेषाणांतु साध्वादीनां कल्पते समर्थीभवति तदादेशिकम्, न शेषाणां परिहार्यमितिभावः । एषा मेरा मर्यादेति ऋजुप्रज्ञत्वादेषाम्, प्रज्ञापनीयत्वाच्च लोकानामियं व्यवस्था ॥१६॥
सेज्जायरो त्ति भण्णति, आलयसामी उ तस्स जो पिंडो । सो सव्वेसि न कप्पति, पसंगगुरुदोसभावेण ॥८११॥ १७/१७
शय्यातर इति भण्यत अभिधीयते, आलयस्वामी तु साध्वाऽऽश्रयस्वामी तस्य यः पिंडः, स सर्वेषामाश्रयान्तरस्थितसाधूनां न कल्पते प्रसङ्गगुरुदोषभावेन प्रकृष्टः सङ्गः प्रसङ्गस्तस्मिन्, [प्रसङ्गो] गुरवश्च ते दोषाश्च [तेषां भावः], तेन तद्भावेन तत्सत्तया ॥१७॥