________________
२१९
गाथा-९-१३ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् सेसेसुं ठियकप्पो, मज्झिमगाणं पि होइ विण्णेओ। चउसु ठिता छसु अठिता, एत्तो च्चिय भणियमेयं तु ॥८०३॥ १७/९
शेषेषु चतुर्षु स्थानेषु, स्थितकल्पो मध्यमकानामपि मध्यमतीर्थकरसाधूनामपि भवति विज्ञेयः । चतुर्पु स्थिताः षट्स्वस्थिताः ।अत एव पूर्वोक्तार्थवशादेव भणितमेतत्तु प्रदेशान्तरे
॥९॥
सिज्जायरपिंडंमि य, चाउज्जामे य पुरिसजेटे य । कितिकम्मस्स य करणे, ठिइकप्पो मज्झिमाणं पि ॥८०४॥ १७/१०
शय्यातरपिण्डे च चातुर्यामे च पुरुषज्येष्ठे च कतिकर्मणश्च करणे स्थितकल्पो व्यवस्थितरूपः, मध्यमानापि मध्यमतीर्थकरसाधूनामपि ॥१०॥
आचेलक्यादिदशस्थानस्वरूपप्रतिपादनायाह - दुविहा एत्थ अचेला, संतासंतेसु हति विण्णेया । तित्थगरऽसंतचेला, संताऽचेला भवे सेसा ॥८०५॥१७/११
द्विविधा द्विप्रकाराः, अत्र स्थितकल्पविचारे, अचेलाः स्वरूपतः शास्त्रोक्ताः, सदसत्सु विद्यमानाविद्यमानेषु वस्त्रेष्विति गम्यते । भवन्ति विज्ञेया ज्ञातव्याः । तीर्थकरा असच्चेलाः शक्रोपनीतदेवदूष(ष्य)परिभोगासम्भवात् । इतरकालं सदचेलाः सद्भिरपि वस्त्रैः अचेला भवेयुः, शेषाः साधवः ॥११॥
आचेलक्को धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, होइ सचेलो अचेलो य ८०६॥ १७/१२
आचेलक्यहेतुत्वाद् आचेलक्यो धर्मः पूर्वस्य च युगादिदेवस्य पश्चिमस्य च महावीरस्वामिनो जिनस्य साधूनाम्, मध्यमकानां जिनानां भवति सचेलोऽचेलश्चाऽऽगमनीत्या । श्वेतवस्त्रधारणं हि पूर्व-पश्चिमसाधूनामाचेलक्यमुक्तम् । मध्यमसाधूनां पुनरेषणीयरक्तनीलादिवर्णोपेतपट[कम्बला] दिधारणमपि शास्त्रेऽनुज्ञातम्, अतः सचेलत्वं पुरुषभूमिकापेक्षया च भगवद्भिरूपदिश्यमानं तद्द्वयमप्यदुष्टम् ॥१२॥
कथं पुनः पूर्व-पश्चिमानां साधूनामाचेलक्यं वस्त्रधारणेऽपि सम्भवतीत्याहअमहद्धण भिन्नेहि य, आचेलक्कमिह होइ वत्थेहिं । लोगागमनीतीए, अचेलगत्तं तु पच्चयतो ॥८०७॥१७/१३