SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ गाथा - २६-२९ १७-स्थिताऽस्थितकल्पं पञ्चाशकम् २२३ एतस्य कृतिकर्मणः, अकरणेऽसम्पादने, मानोऽभिमानः सेवितो भवति, विधेयाप्रवृत्तेः तथा च नीचकर्मबन्ध इति नीचैर्गोत्रकर्मबन्धो विनयाऽकरणात्, प्रवचनखिंसा शासननिन्दा, विनयमूलधर्मप्रतिपादनेऽपि स्वयं वन्दनाप्रवृत्तेः । किमिदं प्रवचनमेव न प्रमाणं तेनैवं चेष्टते, अज्ञायका 'अज्ञा एते' इति खिसैव, लोकव्यवहारमप्येते न जानन्तीति भावः, अबोधिरबोधिलाभफलं कर्म, भववृद्धिः संसारवृद्धिः अर्हे वन्दनोचिते, कृतिकर्माऽकुर्वतामेते दोषाः ॥२५॥ तथा चाह - पंचवतो खलु धम्मो, पुरिमस्स च पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, चउव्वतो होति विणणेओ ॥८२० ॥ १७/२६ पञ्चव्रतः खलु पञ्चयामो धर्मः पूर्वस्य च ऋषभस्वामिनः, पश्चिमस्य च महावीरस्वामिनः जिनस्य वचनवृत्त्या, मध्यमकानां जिनानां द्वाविंशतेः चतुर्व्रतश्चतुर्यामो धर्मो वचनवृत्त्या भवति, विज्ञेयो ज्ञातव्यः, परमार्थतस्त्वभिन्न एव ॥ २६॥ तथा चाह -- नो अपरिग्गहियाए, इत्थीए जेण होइ परिभोगो । ता तव्विरईए च्चिय, अबंभविरइ त्ति पण्णाणं ॥८२१॥ १७/२७ नो नैव, अपरिगृहीतायाः अस्वीकृतायाः स्त्रिया योषितः, येन कारणेन भवति जायते परिभोगः समासेवनम् । तत्तस्मात् तद्विरत्यैवऽब्रह्मविरतिरित्यवाऽब्रह्मचर्यविरति:, प्रज्ञानां [ एतत् प्रजानन्ति ये, ते प्रज्ञा: • अटी.] जानताम्, प्राज्ञानां वा प्रज्ञावताम् ॥२७॥ दुहवि दुविहोऽवि ठिओ, एसो आजम्ममेव विणणेओ । इय वइभेया दुविहो, एगविहो चेव तत्तेणं ॥८२२॥ १७/२८ द्वयोरपि पूर्व-पश्चिमसाधूनां द्वाविंशतेश्च । द्विविधोऽपि पञ्चयाम - चतुर्यामरूपः स्थितो व्यवस्थितः, एष प्रस्तुतकल्पः । आजन्मैव सकलं जन्माभिव्याप्य विज्ञेयो ज्ञातव्यः, इत्येवमुक्तनीत्या, व्रतभेदाद् व्रतोच्चारणभेदात् । पञ्च-चतुर्ष्वप्याख्यानात् । द्विविधोऽपि द्विप्रकार, एकविध एव तत्त्वेन परमार्थेनैकस्वरूप एव, प्रज्ञाविशेषकृतस्तु भगवद्भिः शिष्याऽनुग्रहाय विशेषः प्रतिपाद्यते ॥२८॥ उवठावणाऍ जेट्ठो, विण्णेओ पुरिमपच्छिमजिणाणं । पव्वज्जाए उ तहा, मज्झिमगाणं निरतियारो ॥८२३ ॥ १७/२९
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy