________________
१७-स्थिताऽस्थितकल्पं-पञ्चाशकम्
गाथा -३०-३४
उपस्थापनया महाव्रतारोपणारूपया, ज्येष्ठो रत्नाधिकः विज्ञेयः पूर्व-पश्चिमजिनानां तत्साधूनाम्, प्रव्रज्यया तु सामायिकप्रतिपत्तिरूपया, तथा मध्यमानां मध्यमतीर्थकृतसाधूनां निरतिचारः सकलातिचाररहितः, ज्येष्ठो भवतीति सम्बन्धः ||२९||
उपस्थापनया ज्येष्ठ इत्युक्तम्, तद्विधिप्रतिपादनायाह -
२२४
पढिए य कहिऍ अहिगऍ, परिहर उवठावणाएँ कप्पो ति । छक्कं तीहिँ विसुद्धं, सम्मं नवएण भेदेण ॥८२४ ॥ १७/३०
पठिते च पाठतः शस्त्रपरिज्ञादौ कथिते व्याख्यातेऽर्थप्रकाशनया, अधिगते सम्यग् ज्ञाते, परिहरन् प्रतिषिद्धाऽऽसेवनवर्जनेन । उपस्थापनया व्रतारोपणस्य कल्प्य इति योग्यः, किं परिहरन् ? षट्कं व्रतषट्कं जीवनिकायषट्कं च, त्रिभिर्विशुद्धमतीतवर्तमानभाविभिः कालः विशुद्धं निन्दा - संवरण- प्रत्याख्यानैः सम्यक शास्त्रन्यायेन, नवकन भेदेन कृतकारितानुमतिमनोवाक्कायलक्षणेन ॥३०॥
पितिपुत्तमाइयाणं, समगं पत्ताण जे पितिपभिई ।
थेवंतरे विलंबो, पण्णवणाए उवट्ठवणा ॥८२५॥ १७/३१
पितापुत्रकादीनां जनकसुतादीनाम्, आदिशब्दात् पितृव्य-मातुलादिपरिग्रहः । समकं युगपत्, प्राप्तानामुपस्थापनाप्राप्तानाम्, ज्येष्ठा व्रतज्येष्ठाः, पितृप्रभृतयः क्रियन्ते, स्तोकान्तरे प्राप्तिमाश्रित्य, विलम्बः प्रतीक्षणं सुतादेरिति गम्यते, प्रज्ञापनया पित्राद्यवबोधनेन विशिष्टलग्नान्तराद्यभावे, उपस्थापना महाव्रतारोपणम् ॥३१॥
सक्किमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाण जिणाणं, कारणजाए पडिक्कमणं ॥८२६ ॥ १७/३२ गमणागमणविहारे, सायं पाओ य पुरिमचरिमाणं । नियमेण पडिक्कमणं, अइयारो होउ वा मा वा ॥८२७॥ १७/३३ मज्झिमगाण उ दोसे, कहंचि जायम्मि तक्खणा चेव । 'दोसपडिवारणाए, गुणावहं तह पडिक्कमणं ॥ ८२८ ॥ १७/३४
सप्रतिक्रमणो धर्मः पूर्वस्य पश्चिमस्य च जिनस्य साधूनाम्, मध्यमकानां जिनानां - अर्हद्द्वाविंशतेः साधूनां कारणजाते समुत्पन्नकारणे, कारणसमूहे वा, प्रतिक्रमणं विधेयम्, न सर्वदा ॥३२॥