________________
गाथा - ३५-३७
१७ - स्थिताऽस्थितकल्पं पञ्चाशकम्
२२५
गमनं चागमनं च विहारश्च चैत्यसाधुवन्दनादौ, गमनागमनविहारं तस्मिन् । सायं विकालवेलायां प्रातश्च प्रभाते, पूर्वचरमसाधूनाम्, नियमेन नियोगेन प्रतिक्रमणमीर्यापथिकप्रतिक्रमणम्, दैवसिकं च रात्रिकरूपं च अतिचारो भवतु वा, मा वा भूत् ॥३३॥
मध्यमकानां मध्यमजिनसाधूनां दोषेऽपराधे कथञ्चित् प्रमादात् जाते समुत्पन्ने तत्क्षणादेव कालव्याक्षेपमन्तरेण, दोषप्रतिवारणया दोषनिषेधेन, [दोसपडियारणाया- दोषप्रतिकारज्ञाताद्-रोगचिकित्सोदाहरणेन । अटी. ] गुणावहं गुणकारणम्, तथा प्रतिक्रमणं तेषामपि सायं प्रातश्चावश्यकरूपं न, [अपि] त्वनियमेन तेष्वपि तीर्थेषु सामायिकादिसूत्रभावात् । तस्य च सन्ध्याकालप्रत्यासत्तिप्रतिबन्धस्थितित्वात् । अपरसन्ध्यायां दैवसिकम्, पूर्वसन्ध्यायां रात्रिकमनादिकालसंसिद्धश्चायं व्यवहारः ||३४|| (१. दोसपडियारणाया - अटी.)
पुरिमेयरतित्थयराण मासकप्पो ठिओ विणिद्दिट्टो |
मज्झिमाण जिणाणं, अट्ठियओ एस विणणेओ ॥८२९॥ १७/३५
पूर्वेतरतीर्थकरसाधूनां मासकल्पो मासकल्पप्रकृतानुसार्यनुष्ठानविशेष:, न तु मासावस्थानमात्रं शेषक्रियाविकलमेव, स्थितो व्यवस्थितः, विनिर्दिष्टः कथितः, मध्यमकानां जिनाना मध्यमतीर्थकर-साधूनाम् अस्थितकोऽस्थितरूप एव, स्वल्पेनापि कारणेन गुणदोषापेक्षयाऽतदुल्लङ्घनाद् एष मासकल्पः विज्ञेयो ज्ञातव्यः ॥३५॥
पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाणाराहणमेए, दोसा अविहारपक्खम्मि ॥ ८३०॥ १७/३६
प्रतिबन्धो द्रव्यादिप्रतिबन्धः, लघुकत्वं जनमध्ये लाघवम्, प्रतिबन्धः स हि तपस्वी, यस्य लाघवहेतुत्वात् प्रसिद्धं चैतद्विदुषामितरेषां च न जनोपकारो विभिन्नक्षेत्रावस्थितानां लोकानां धर्मार्थिकानामेकक्षेत्रनिवासे साधुभ्यो, न दर्शनम्, न पर्युपासनम्, विनयधर्मश्रवणादिभिर्महानुपकारो यथा, तेभ्य एव गुणव्यवस्थितेभ्यः, सर्वसत्वहितनिरतेभ्य:, यथागमं विहरद्भ्यः सम्पद्यते । न देशविज्ञानं नानादेशस्वरूपविज्ञानं समुदायनिर्वाहफलम्, स्वपरोपकारक्षमम्, प्रयोजनसमुत्पन्नैः नैकक्षेत्रनिवासे(सः) साधूनां सम्भवति । न नैवाज्ञाराधनं सर्वज्ञाज्ञासम्पादनम्, एते दोषा अविहारपक्षे, तस्मादागमानुसारी मासकल्प एव श्रेयान् ॥३६॥
कालादिदोसओ पुण, न दव्वओ एस. कीरई नियमा । भावेण उ कायव्वो, संथारगवच्चयादीहिं ॥८३१ ॥ १७/३७
कालादिदोषतः पुनः दुःषमाकाल - मासकल्पायोग्यक्षेत्रादिदोषतः, न नैव, द्रव्यतः