________________
२२६
१७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-३८-४१ सकलक्रियाद्वारेणैष मासकल्पः, क्रियते विधीयते । नियमान्नियमेन, भावेन तु भावमाश्रित्य, कर्तव्यो मासकल्पः, संस्तारकव्यत्ययादिभिः संस्तारकभूमिविपर्ययासादिभिः । यथोक्तम्
गोयरमाईयाणं एत्थं परियत्तणं तु मासादौ ।
जह-संभवं निओगो संथारम्मी विही भणिओ ॥३७॥ पज्जोसवणाकप्पोऽपेवं पुरिमेयरादिभेदेणं ।। - उक्कोसेतरभेदो, सो नवरं होइ विण्णेओ ॥८३२॥ १७/३८ पर्युत्सवना( पर्युषणा)कल्पोऽप्येवं पूर्वेतरादिभेदेन पूर्व-पश्चिमजिनसाध्वादिभेदेन, आदिशब्दान्मध्यमजिनसाधुपरिग्रहः, उत्कृष्ट-जघन्यौ भेदावस्य इत्युत्कृष्टेतरभेदः । स पर्युत्सवना(पर्युषणा)कल्पः । नवर केवलं भवति विज्ञेयोऽवबोद्धव्यः ।।३८॥ ।
चाउम्मासुक्कोसो, सत्तरि राइंदिया जहण्णो उ। थेराण जिणाणं पुण, नियमा उक्कोसओ चेव ॥८३३॥ १७/३९
चतुर्मासं, स्वार्थे 'ष्यञ्'[ ] विधानात्, चातुर्मासी, उत्कृष्टो ज्येष्ठः । सप्तति रात्रिंदिवानि अहोरात्राणि । जघन्यस्तु स्थविराणां स्थविरकल्पिकानाम्, जिनानां पुनर्जिनकल्पिकानाम्, नियमान्नियमेन उत्कृष्ट एव, नेतरः ॥३९॥
दोसासति मज्झिमगा, अच्छंति उ जाव पुव्वकोडी वि । इहरा उ ण मासं पि हु, एवं खु 'विदेहजिणकप्पे ॥८३४॥ १७/४० ___ दोषाणामसत्यभावे, मध्यमका मध्यमतीर्थकरसाधव, आसते त्वतिष्ठन्त एवैकक्षेत्रे, यावत् पूर्वकोट्यपि पूर्वकोटीमपि यावत् । इतरथाऽन्यथा पुनर्न मासमपि, हुर्वाक्यालङ्कारे, एवं खु एवमेव विदेहजिनकल्पिकाः महाविदेहक्षेत्रे व्यवस्थितजिनसाधवः [विदेहजिणकप्पिविदेहजिनकल्पे इति अटी.-इति पाठान्तरत्वेन स्वीकृतः] ॥४०॥ (१. विदेहजिणकप्पि-अटी.)
एवं कप्पविभागो, ततिओसहणातओ मुणेयव्यो । भावत्थजुओ एत्थ उ, सव्वत्थ वि कारणं एयं ॥८३५॥ १७/४१
एवमुक्तनीत्या, कल्पविभाग आचेलक्यादिदशविधस्थिताऽस्थितकल्पविभागः, तृतीयौषधज्ञाततस्तृतीयौषधोदाहरणेन, मन्तव्यो ज्ञातव्यः, भावार्थयुतो गर्भार्थयुक्तः, अत्र तु दशविधकल्पे, सर्वत्रापि स्थितास्थितादौ, कारणं निमित्तम् एतद् वक्ष्यमाणं वर्तते ॥४१॥