SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २२७ गाथा-४२-४५ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् तदेवाह - पुरिमाण दुव्विसोज्झो, चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं, सुविसोज्झो सुहणुपालो य ॥८३६॥ १७/४२ [पूर्वेषाम्] पूर्व(आद्य, अटी.)तीर्थकरसाधूनाम्, दुर्विशोध्यो दुर्विशोधनीयः चरमतीर्थकरसाधूनां दुःखेनानुपाल्यत इति दुरनुपालः, स एव दुरनुपालकः कल्पः प्रस्तुतः । मध्यमकानां जिनानां मध्यमतीर्थकरसाधूनाम्, सुविशोध्यः सुशोधनीयः, सुखेनानुपाल्यत इति सुखानुपालश्च ॥४२॥ उज्जुजडा पुरिमा खलु, णडादिणायाउ होति विण्णेया । वक्कजडा पुण चरिमा, उजुपण्णा मज्झिमा भणिया ॥८३७॥ १७/४३ ऋजवश्च ते जडाश्च ऋजुजडाः। पूर्वे पूर्वतीर्थकरसाधवः। खलु नटादिज्ञातात् आदिशब्दात् प्रेक्षणकादि-परिग्रहः, भवन्ति विज्ञेयाः, ऋजुत्व-जडत्वाभ्यां तेषां हीदं जडत्वं-यन्नटाद्यवलोकेन निषिद्धे, प्रेषणकांद्यप्रतिषिद्धं मन्यमानाः पश्यन्त्येव, गुरुभिस्तु रागद्वेषादिमूलत्वेन तस्मिन्नेव निवारिते, स्वच्छाऽऽशयत्वात् तदपि तथाविधं मन्यमानाः परिहरन्तीति तेषामृजुत्वं । वक्रः जडाः पुनश्चरमतीर्थकरसाधवः, सामान्येन जडत्वाद् दोषाऽऽसेवनेऽपि भूयसामृजुत्वपरिणामाभावात् वक्रत्वोपपत्तेः । ऋजुप्रज्ञा । प्रजानन्तीति प्रज्ञाः । 'आतश्चोपसर्ग'इति जानातेः प्रोपसर्गपूर्वात्कर्तरि कः । जडप्रतिपक्षभूतगुणपरिग्रहश्चानेनोक्तः, ऋजुत्वं शुभभावत्वम्, ऋजवश्च ते प्रज्ञाश्चेति समासः, मध्यमा मध्यमतीर्थकरसाधवः भणिताः कथिताः ॥४३॥ कालसहावाउ च्चिय, एतो एवंविहा उ पाएणं । होंति अओ उ जिणेहि, एएसि इमा कया मरा ॥८३८॥ १७/४४ कालस्वभावादेव तावत्कालसामर्थ्यादेव, एते ऋजु-जडादयः । एवंविधास्तु व्यावणितस्वभावा एव, प्रायेण बाहुल्येन, भवन्ति जायन्ते तत्तत्कालविभागाः अतस्तु अत एव हेतोः जिनर्भगवद्भिरनुग्रहप्रभृतैः एतेषामृजुजडादीनां कृत्वा, विहिता इयमक्तस्वरूपा मेरा मर्यादा ॥४४॥ (१. मेर-अटी.) एवंविहाण वि इहं, चरणं दिळं तिलोगणाहेहिं । जोगाण थिरो भावो, जम्हा एएसि सुद्धो उ ॥८३९॥ १७/४५
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy