________________
२२८
१७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-४६-४९ अथिरो उ होइ इयरो, सहकारिवसेण न उण तं हणइ । जलणा जायइ उण्हं, वज्जं न उ चयइ तत्तं पि ॥८४०॥ १७/४६ जुम्म।
एवंविधानामपि ऋजुजडादीनामपि इह प्रक्रमे कल्पे मनुष्यलोके, चरणं चारित्रम्, दृष्टमुपलब्धं केवलज्ञानचक्षुषा, त्रिलोकनाथैर्लोकत्रयस्वामिभिः । योग्यानां प्रव्रज्योचितानाम्, स्थिरः प्रतिष्ठितः, भावोऽध्यवसायः, यस्मादेतेषामृजुजडादीनां शुद्धस्तु शुद्ध एव सन् भवति ॥४५॥
अस्थिरस्त्वप्रतिष्ठितरूपः, कदाचित्कः, भवतीतरोऽशुद्धः, सहकारिवशेन द्रव्यादिसामग्रीकर्मोदयसामर्थ्येन न पुनस्तं योग्यस्थिरभावं हन्ति विनाशयति, तदुच्छेदापादनेन । दृष्टान्तमाहज्वलनाद् वः जायते भवति उष्णं वजं पार्थिवविकाररूपम्, न तु नैव, त्यजति सर्वथा मुञ्चति, तत्त्वमपि स्वरूपमपि, यथा काष्ठादयो ज्वलनसम्पर्काद् भस्मसाद् भवन्ति, नैवं वज्रम्, भस्मसाद्भावानापत्तेः ॥४६॥
इय चरणम्मि ठियाणं, होइ अणाभोगभावओ खलणा । न उ तिव्वसंकिलेसा, णऽवेति चारित्तभावोऽवि ॥८४१॥ १७/४७
इत्येवं चरणे चारित्रे स्थितानां व्यवस्थितानां भवति जायते । अनाभोगभावतोऽपरिज्ञानभावेन, स्खलना क्रियाप्रबन्धाऽप्रवृत्तिरूपा, न तु नैव तीव्रसङ्क्लेशाद् द्वादशकषायोदयजन्यात् नापैति नापगच्छति चारित्रभावोऽपि चारित्रपरिणामोऽपि, किन्तु अनवस्थित एवास्ते ॥४७॥
चरिमाण वि तह णेयं, संजलणकसायसंगयं चेव । माइट्ठाणं पायं, असई पि हु कालदोसेणं ॥८४२॥ १७/४८
चरिमाणामपि चरमतीर्थकरसाधूनामपि, तथा तेन रूपेण, ज्ञेयं ज्ञातव्यं चरणम्, सज्वलनकषायसङ्गतमेव-अल्पतरकषायसमन्वितमेव । माइट्ठाणं ति [मातरः स्त्रियोऽभिधीयन्ते, तासां स्थानम्, अटी.] मातृस्थानं मायास्थानं माया प्रायो बाहुल्येन केषाञ्चिन्न सम्भवत्येवेति प्रायोग्रहणम्, असकृदनेकशोऽपि । हुर्वाक्यालङ्कारे, कालदोषेण दुःषमास्वभावेन ॥४८॥
व्यतिरेकसारमाह - इहरा उ न समणत्तं, असुद्धभावाउ हंदि विण्णेयं । लिंगंमि वि भावेणं, सुत्तविरोहा जओ भणियं ॥८४३॥ १७/४९