Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
गाथा - ४१-४३
१९- तपोविधि-पञ्चाशकम्
२५७
प्रतीताना एषोऽयं ‘रेसिंमि त्ति' निमित्तं सुप्रशस्तो ऽतिशुभः, तत्रैकमष्टमं दर्शनगुणशुद्धये एवमपरद्वयं
ज्ञेयं । शेषद्वयपरिशुद्धये । इति गाथार्थः ||४०||
I
अथ सर्वाङ्गसुन्दरादितपस्सु सनिदान एव प्राणी प्रवर्तते, ततो न न्याय्यान्येतानीत्याशङ्कापरिहारार्थमनिदानतामेषु प्रवृत्तस्य दर्शयन्नाह
एएस 'वट्टमाणो, भावपवित्तीऍ बीजभावाओ । सुद्धासयजोएणं, अनियाणो भवविरागाओ ॥ ९३७॥ १९/४१
-
आह
एए गाहा । एतेष्वनन्तरोक्ततपस्सु प्रवर्तमानो व्याप्रियमाणो जीवः एतेसु बहुमाणा इति पाठान्तरं व्यक्तं च । कया ? भावप्रवृत्त्या बहुमानसारक्रियया अनिदान इति योग: । कुत इति ? ह - बीजभावात् बोधिबीजविकलस्य देहिनो बोधिबीजभवनेन । एतदेव कथमिति ? आहशुद्धाशययोगेन शुभाध्यवसायसम्बन्धेन, शुभाध्यवसायाद्धि बोधिबीजं स्यात् । अनिदानो निदानरहितः स्यात् । तथा भवविरागात् संसारनिर्वेदात्, यत् किल भवविरागादिनिमित्तं तन्निदानं न भवति बोध्यादिप्रार्थनमिव । भवविरागादिहेतवश्चोक्ततपांसि केषाञ्चिदतो निर्निदानानि । इति गाथार्थः ॥४१॥ (१. बहुमाणा - अटी. 1)
निर्निदानत्वादेवैतेषां निर्वाणाङ्गतामाचार्यान्तरमतेनापि दर्शयन्नाह - विसयसरूवणुबंधेर्हि तह य सुद्धं जओ अणुट्ठाणं । निव्वाणंगं भणियं, अण्णेहि वि जोगमग्गमि ॥ ९३८ ॥ १९ / ४२
एयं च विसयसुद्धं, एगंतेणेव जं तओ जुत्तं । आरोग्गबोहिलाभादिपत्थणाचित्ततुल्लं ति ॥ ९३९ ॥ १९ / ४३ जुम्मं ।
विसय गाहा । एवं च गाहा । विषयो गोचर उक्ततपसामालम्बनीयस्तीर्थकरनिर्गमादिः, स्वरूपमुक्ततपसामेव स्वभाव आहारत्यागब्रह्मचर्यजिनपूजासाधुदानादिलक्षणः, अनुबन्धश्च तत्परिणामाव्यवच्छेदतः प्रकर्षयायिताऽतस्तेषु विषयस्वरूपानुबन्धेषु । तथा चेति समुच्चये । शुद्धं निरवद्यं यतो यस्मात् कारणात् अनुष्ठानं क्रिया निर्वाणाङ्गं मुक्तिकारणं भणितमुक्तम् अन्यैरपि तन्त्रान्तरीयैः, किं पुनर्जिनैः योगमार्गेऽध्यात्मशास्त्रपथे । अतो विषयादिशुद्धतयैतेषां निर्वाणाङ्गत्वान्निर्निदानतेति हृदयमिति ॥४२॥
एतच्चैतत्पुनरनन्तरोक्तं तपः । विषयशुद्ध निर्दोषगोचरं सकलदोषमोषिजिन - पतिविषयत्वात् एकान्तेनैव सर्वथैव यद्यस्मात्ततस्तस्माद्धेतोः युक्तं सङ्गतं प्रार्थनागर्भमपीदं तपः । कुत इति ? आह-आरोग्यबोधिलाभादीनां " आरोग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ” इत्येवंरूपा या

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362