SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ गाथा - ४१-४३ १९- तपोविधि-पञ्चाशकम् २५७ प्रतीताना एषोऽयं ‘रेसिंमि त्ति' निमित्तं सुप्रशस्तो ऽतिशुभः, तत्रैकमष्टमं दर्शनगुणशुद्धये एवमपरद्वयं ज्ञेयं । शेषद्वयपरिशुद्धये । इति गाथार्थः ||४०|| I अथ सर्वाङ्गसुन्दरादितपस्सु सनिदान एव प्राणी प्रवर्तते, ततो न न्याय्यान्येतानीत्याशङ्कापरिहारार्थमनिदानतामेषु प्रवृत्तस्य दर्शयन्नाह एएस 'वट्टमाणो, भावपवित्तीऍ बीजभावाओ । सुद्धासयजोएणं, अनियाणो भवविरागाओ ॥ ९३७॥ १९/४१ - आह एए गाहा । एतेष्वनन्तरोक्ततपस्सु प्रवर्तमानो व्याप्रियमाणो जीवः एतेसु बहुमाणा इति पाठान्तरं व्यक्तं च । कया ? भावप्रवृत्त्या बहुमानसारक्रियया अनिदान इति योग: । कुत इति ? ह - बीजभावात् बोधिबीजविकलस्य देहिनो बोधिबीजभवनेन । एतदेव कथमिति ? आहशुद्धाशययोगेन शुभाध्यवसायसम्बन्धेन, शुभाध्यवसायाद्धि बोधिबीजं स्यात् । अनिदानो निदानरहितः स्यात् । तथा भवविरागात् संसारनिर्वेदात्, यत् किल भवविरागादिनिमित्तं तन्निदानं न भवति बोध्यादिप्रार्थनमिव । भवविरागादिहेतवश्चोक्ततपांसि केषाञ्चिदतो निर्निदानानि । इति गाथार्थः ॥४१॥ (१. बहुमाणा - अटी. 1) निर्निदानत्वादेवैतेषां निर्वाणाङ्गतामाचार्यान्तरमतेनापि दर्शयन्नाह - विसयसरूवणुबंधेर्हि तह य सुद्धं जओ अणुट्ठाणं । निव्वाणंगं भणियं, अण्णेहि वि जोगमग्गमि ॥ ९३८ ॥ १९ / ४२ एयं च विसयसुद्धं, एगंतेणेव जं तओ जुत्तं । आरोग्गबोहिलाभादिपत्थणाचित्ततुल्लं ति ॥ ९३९ ॥ १९ / ४३ जुम्मं । विसय गाहा । एवं च गाहा । विषयो गोचर उक्ततपसामालम्बनीयस्तीर्थकरनिर्गमादिः, स्वरूपमुक्ततपसामेव स्वभाव आहारत्यागब्रह्मचर्यजिनपूजासाधुदानादिलक्षणः, अनुबन्धश्च तत्परिणामाव्यवच्छेदतः प्रकर्षयायिताऽतस्तेषु विषयस्वरूपानुबन्धेषु । तथा चेति समुच्चये । शुद्धं निरवद्यं यतो यस्मात् कारणात् अनुष्ठानं क्रिया निर्वाणाङ्गं मुक्तिकारणं भणितमुक्तम् अन्यैरपि तन्त्रान्तरीयैः, किं पुनर्जिनैः योगमार्गेऽध्यात्मशास्त्रपथे । अतो विषयादिशुद्धतयैतेषां निर्वाणाङ्गत्वान्निर्निदानतेति हृदयमिति ॥४२॥ एतच्चैतत्पुनरनन्तरोक्तं तपः । विषयशुद्ध निर्दोषगोचरं सकलदोषमोषिजिन - पतिविषयत्वात् एकान्तेनैव सर्वथैव यद्यस्मात्ततस्तस्माद्धेतोः युक्तं सङ्गतं प्रार्थनागर्भमपीदं तपः । कुत इति ? आह-आरोग्यबोधिलाभादीनां " आरोग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ” इत्येवंरूपा या
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy