SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २५६ १९-तपोविधि-पञ्चाशकम् गाथा-३९-४० च त एव पुरिमार्धवर्जाः प्रतिकषायं विधीयन्तेऽसौ कषायमथनः । इह परिपाटीचतुष्केण षोडश तपोदिनानि स्युः । तथा यत्र निर्विकृतिकायामोपवासा एकैकयोगमाश्रित्य विधीयन्तेऽसौ योगशुद्धिः। इह च परिपाटीत्रयेण नव तपोदिनानि स्युरिति । अथोक्तशेषानतिदिशन्नाह-'एमादओ वि त्ति' एवमादयोऽप्यनन्तरोक्ततपःप्रकारा अपि तपोविशेषाः ज्ञेया ज्ञातव्याः । तथा तथा तेन तेन प्रकारेण यो यथा विधेयो यत्प्रमाणश्चेत्यर्थः । पण्डितजनादाचरणाविज्ञजनात्। तथाहि-यत्रोपवास एकाशनकमेकसित्थमेकस्थानकमेकदत्तिनिर्विकृतिकमायाममष्टकवलं च स्यात् तदष्टकर्मसूदनं तपस्तत्र चाष्टाभिः परिपाटीभिश्चतुःषष्टिस्तपोदिनानि स्युः । तथा भाद्रपदे सप्तभिरेकाशनकैस्तीर्थकरमातृपूजायुक्तं तीर्थकरमातृतपः स्यात् । तथा भाद्रपद एव षोडशभिरेकाशननिर्विकृतिकायामोपवासैर्यथाशक्तिकृतैः समवसरणपूजान्वितं समवसरणतपः। तत्र चतुर्षु भाद्रपदेषु चतुःषष्टिस्तपोदिनानि स्युः । तथाऽमावास्यायां पटलिखितनंदीश्वर-जिननिलयपूजान्वितमुपवासादीनामन्यतमन्नन्दीश्वरतपः । तथा चैत्रपूर्णमास्यां पुण्डरीकपूजायुतमुपवासाद्यन्यतरत्पुण्डरीकतपः। तथा जिनबिंबपुरतः स्थापितकलशः प्रतिदिनं प्रक्षिप्यमाणतंडुलमुष्ट्या यावद्भिर्दिनैः पूर्यते तावन्ति दिनान्येकाशनकादितपोऽक्षतनिधिः । तथैका प्रतिपत्, द्वे द्वितीये, तिस्रस्तृतीया, एवं यावत्पञ्चदश पञ्चदश्यः कृतोपवासा यत्र तपसि भवन्ति तत् सर्वसौख्यसंपत्तिरित्येवमन्यान्यपि तपांसि । इति गाथार्थः ॥३८॥ अथैते तपोविशेषा आगमे नोपलभ्यन्त इत्याशङ्कां परिहरन्नाह - चित्तं चित्तपयजुयं, जिणिंदवयणं असेससत्तहियं । परिसुद्धमेत्थ किं तं, जं जीवाणं हियं नत्थि ॥९३५॥ १९/३९ __चित्तं गाहा । चित्रमद्भुतमनेकातिशयाभिधानत्वादङ्गानङ्गादिभेदत्वाद्वा चित्रमनेकविधं तथा चित्रपदयुत नानाविधार्थप्रतिपादकाभिधानयुक्तं जिनेन्द्रवचनं जिनेश्वरागमः, अशेषसत्त्वहितं समस्तप्राण्यु-पकारकं भव्यानुसारेण मार्गप्रतिपत्त्युपायप्रतिपादनपरत्वात् परिशुद्धं कषच्छेदतापविशुद्धं सुवर्णमिव निर्दोषं एवं चात्रास्मिन् जिनवचने। किंतवज्जीवानां हितं नास्ति ? सर्वमपि जीवानां हितमस्तीत्यत इदं तपः परिदृश्यमानागमेऽनुपलभ्यमानमप्युपलब्धमिवावगन्तव्यं तथाविधजनहितत्वात् । इति गाथार्थः ॥३९॥ तथा - सव्वगुणपसाहण मो, णेओ तिहि अट्ठमेहि परिसुद्धो । दंसणनाणचरित्ताण एस रेसिमि सुपसत्थो ॥९३६॥ १९/४० सव्व गाहा । सर्वगुणप्रसाधनः सकलगुणावह इति पर्यायः तपोविशेषः । 'मा' निपातः पूरणार्थः ज्ञेयोऽवसेयः त्रिभिरष्टमैरुपवासत्रयलक्षणैः परिशुद्धोऽनवद्यः दर्शनज्ञानचारित्राणां
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy