________________
गाथा-३५-३८ १९-तपोविधि-पञ्चाशकम्
२५५ एवं गाहा। एवमित्येकान्तरितद्वात्रिंशदायामरूपं आयतिजनक उक्तार्थः विज्ञेयः नवरं केवलमयं विशेष इत्यर्थः । एषोऽयं सर्वत्र सर्वधर्मकृत्येषु अनिगूहितबलवीर्यस्य भवति शुद्धो विशेषेणेति व्यक्तम् । नवरं केवलं बलं शारीरः प्राणः, वीर्यं चित्तोत्साहः । इति गाथार्थः ॥३४॥ चित्ते एगंतरओ, सव्वरसं पारणं च विहिपुव्वं । सोहग्गकप्परुक्खो , एस तवो होइ कायव्वो ॥९३१॥ १९/३५
चित्ते गाहा । चैत्रे मासे एकान्तरक एकदिनव्यवहितः उपवास इति गम्यते । सर्वरसं सविकृतिकमित्यर्थः। पारणंच भोजनं विधिपूर्वं गुरुदानादिपूर्वकमित्यर्थः । सौभाग्यकल्पवृक्ष उक्तार्थः । एषोऽय 'तवो त्ति' तपोविशेषो भवति कर्तव्य इति व्यक्तम् । इति गाथार्थः ॥३५॥
इहैव विधिशेषमाह - दाणं च जहासत्ति, एत्थ समत्तीऍ कप्परुक्खस्स । ठवणा य विविहफलभरसन्नामियचित्तडालस्स ॥९३२॥ १९/३६
दाणं गाहा । दानं च साध्वादिभ्यो देयम्, यथाशक्त्यत्र तपसि, समाप्तौ वाऽस्य तपसः कल्पवृक्षस्य सुवर्णतन्दुलादिमयस्य, स्थापना च न्यासश्च । किंविधस्य ? विविधफलभरेण नानाविधफलभारेण, सन्नामितान्यवनतीकृतानि, चित्राणि विविधानि, डालानि शाखा यस्य स, तथा तस्येति गाथार्थः ॥३६॥ एते अवऊसणगा, इट्ठफलपसाहगा उ सटाणे । अण्णत्थजुया य तहा, विण्णेया बुद्धिमंतेहिं ॥९३३॥ १९/३७
एते गाहा । एतान्यवजोषणकानि तपोविशेषसेवाः इष्टफलसाधकानि तु स्वस्थाने स्वविषये अव्युत्पन्नविनेयलक्षणे अन्वर्थयुक्तानि च तथा अन्वर्थश्चैषां प्राग्दर्शित एव । विज्ञेयानि बुद्धिमद्भिः । इति गाथार्थः ॥३७॥ तथा -
इंदियविजओ वि तहा, कसायमहणो य जोगसुद्धी य । एमादओ वि णेया तहा तहा पंडियजणाओ ॥९३४॥ १९/३८
इंदिय गाहा। इन्द्रियविजयोऽपि तपोविशेषः प्रतीतान्वर्थः । तथा कषायमथनश्च व्यक्तान्वर्थ एव । योगशुद्धिश्च मनोवाक्कायव्यापारानवद्यतासंपादकस्तपोविशेषो भवति । एतत्स्वरूपं चाचरणतोऽवसेयम्। तच्चेदम्-पुरिमाधैकाशनकनिर्विकृतिकायामोपवासा यत्रैकैकमिन्द्रियमाश्रित्य पञ्चभिः परिपाटीभिर्विधीयन्तेऽसाविन्द्रियविजयः । तत्र पञ्चविंशतिस्तपोदिनानि भवन्ति । यत्र