________________
२५४ १९-तपोविधि-पञ्चाशकम्
गाथा-३०-३४ शिवपथाश्रयणकारणं यश्च तत्प्रतिपत्तिहेतुः स मार्ग एवोपचारात् । कथमिदमिति चेदुच्यतेहंदीत्युपप्रदर्शन। विनेयानुगुण्येन शिक्षणीयसत्त्वानुरूप्येण । भवन्ति हि केचित् ते विनेया ये साभिष्वङ्गानुष्ठानप्रवृत्ताः सन्तो निरभिष्वङ्गमनुष्ठानं लभन्ते । इति गाथाद्वयार्थः ॥२९॥
अथ सर्वाङ्गसुन्दरादितपोविशेषान् विवृण्वन्नाह - अट्ठोवासा एगंतरेण विहिपारणं च आयाम । ....... सव्वंगसुन्दरो सो होइ तवो सुक्कपक्खंमि ॥९२६॥ १९/३० खमयादभिग्गहो इह, सम्मं पूया य वीयरागाणं । दाणं च जहासत्ति, जइदीणादीण विण्णेयं ॥९२७॥ १९/३१ जुम्मं ।
अट्टो गाहा । खम गाहा । अष्टावुपवासाः प्रसिद्धाः । कथं? एकेन पारणकदिनेनान्तरं व्यवधानमेकान्तरं तेन एकान्तरेण। विधिपारणं च प्रत्याख्यानस्पर्शनादिविधानयुक्तं भोजनं च । आयाममाचाम्लमागमसिद्धं यत्र तपोविशेषे । सर्वाङ्गसुन्दरोऽसौ भवति । 'तवो त्ति' तपोविशेषः । शुक्लपक्षे प्रतीते । इति ॥३०॥ तथा -
क्षाम्यतीति क्षमस्तद्भावः क्षमता क्षान्तिस्तदादौ क्षान्तिमार्दवार्जवा-दावभिग्रहो नियमः क्षमताद्यभिग्रहः इह तपसि विधेयो भवति । तथा सम्यग् भावतः पूजा चाभ्यर्चन वीतरागाणा। दानं च यथाशक्ति यतिदीनादीनां विज्ञेयमिति व्यक्तम् । इति गाथाद्वयार्थः ॥३१॥ तथा -
एवं चिय निरुजसिहो, नवरं सो होइ किण्हपक्खम्मि । तह य गिलाण तिगिच्छाभिग्गहसारो मुणेयव्वो ॥९२८॥ १९/३२
एवं गाहा। एवं चिय' एवमेव सर्वाङ्गसुन्दरवदित्यर्थः । निरुजशिखस्तपोविशेषः । नवरं केवलं स भवति कृष्णपक्ष इति व्यक्तम्। तथा चेति विशेषान्तरसमुच्चयार्थः ग्लानचिकित्सा-ऽभिग्रहसारो ग्लानो मया पथ्यादिदानतः प्रतिचरणीय इत्येवंरूपप्रतिज्ञाप्रधानो ज्ञातव्यः । इति गाथार्थः ॥३२॥ तथा -
बत्तीसं आयाम, एगंतरपारणेण सुविसुद्धो। तह परमभूसणो खलु, भूसणदाणप्पहाणो य ॥९२९॥ १९/३३
बत्तीसं गाहा। द्वात्रिंशदायामान्याचाम्लानि । एकान्तरपारणेन एकायामव्यवहितभोजनेन । सुविशुद्धानि निर्दोषाणि । तथेति समुच्चये। परमभूषणः खलु उक्तशब्दार्थः । भूषणदानप्रधानश्च जिनाय तिलकाद्याभरणदानसारः । इति गाथार्थः ॥३३।। तथा -
एवं आयइजणगो, विण्णेओ नवरमेस सव्वत्थ । अणिगूहियबलविरियस्स होइ सुद्धो विसेसेणं ॥९३०॥ १९/३४